________________
हितोपदेशः । गाथा-२५६, २५७, २५८, २५९- जिनेश्वराणांभावोपकारः।।भगवद्वाण्या: पञ्चत्रिंशद्गुणाः ।। ३०५
अट्ठप्पयारवरपाडिहेर - पूओच्छवं पडिच्छंता । विहरंति तित्थनाहा नगरागरमंडियं वसुहं ।।२५६।। अष्टप्रकारमशोकवृक्षादिकं वरप्रातिहार्यलक्षणं विशिष्टं सुरकृतं पूजोत्सवं प्रतीच्छन्तः सकलार्यनगराकरमण्डितं मेदिनीमण्डलं स्वप्रचारेण पवित्रयन्ति ।।२५६।। साम्प्रतं तेषां भावोपकारं भावयन्नाह -
पणतीसवयणगुणसंगयाइ साहारणाइ सत्ताणं ।
जोयणपसप्पिणीए वाणीइ कुणंति धम्मकहं ।।२५७।। एवंविधया वाण्या गिरा धर्मकथां कुर्वन्ति । किम्भूतया? संस्कारवत्त्व १ औदात्त्य २ उपकारपरीतत्व ३ मेघगम्भीरघोषत्व ४ प्रतिनादविधायित्व ५ दक्षिणत्व ६ उपनीतरागत्व ७ महार्थत्व ८ अव्याहतत्व ९ शिष्टत्व १० संशयोच्छेदित्व ११ निराकृतान्योत्तरत्व १२ हृदयङ्गमत्व १३ मिथः साकाङ्क्षत्व १४ प्रस्तावौचित्य १५ तत्त्वनिष्ठत्व १६ अप्रकीर्णप्रसृतत्व १७ अस्वश्लाघान्यनिन्दित्व १८ अभिजात्य १९ अतिस्निग्धमधुरत्व २० प्रशस्यत्व २१ अमर्मवेधित्व २२
औदार्य २३ धर्मार्थप्रतिबद्धत्व २४ कारककाललिङ्गाद्यविपर्यासित्व २५ विभ्रमादिवियुक्तत्त्व २६ चित्रकृत्व २७ अद्रुतत्व २८ अनतिविलम्बित्व २९ अनेकजातिवैचित्र्य ३० आरोपितविशेषत्व ३१ सर्वप्रधानत्व ३२ वर्णपदवाक्यविविक्तत्व ३३ अव्युच्छित्ति ३४ अखेदित्व ३५ लक्षणपञ्चत्रिंशद्वचनगुणसङ्गतया । तथा सत्त्वानां सुरनरतिर्यगपाणामर्थावबोधसाधारणया । पुनः किम्भूतया ? योजनप्रसर्पिण्या योजनपरिमण्डलक्षेत्रावगाहक्षमया । एवम्प्रकारया गिरा धर्मदेशनां कुर्वन्ति ।।२५७।। तथा च धर्ममुपदिशन्तः किं विदधति तदाह -
बोहिंति भव्वसत्ते मिच्छत्ततमंधयारमवणिंति । जणयंति भवविरागं निव्वाणपहं पयासंति ।।२५८।। संसारचारयगयं भवियजणं उद्धरंति करुणाए ।
एसो भावुवयारो भुवर्णमि जिणिंदचंदाणं ।।२५९।। भव्यसत्त्वान् मुक्तिगमनयोग्यानङ्गिनो जीवाजीवादिषु पदार्थेषु बोधयुक्तान् कुर्वन्ति । तथा च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org