________________
३०४
हितोपदेशः । गाथा-२५४, २५५ - जिनेश्वराणां भावोपकारः ।।
सुरपतिकरकमलप्रेरितशशिकराकारचामरोत्पीलाः । निर्भरभक्तिप्राग्भारभूषितमनसो हि सुरपतयस्तीर्थकृतां स्वयमन्दोलयन्ति विमलचामरनिकरान् । तथा दीप्यमानपुरस्सरधर्मचक्राः प्रसर्पदिन्द्रध्वजाश्च विहारक्षणे हि भगवतामर्हतां धर्मचक्रमहेन्द्रध्वजौ प्रसर्पत पुरः इति खैतिह्यम् ।।२५३।। तथा -
नियतेयतिणीकयचंडभाणु-भामंडलाणुगयदेहा ।
रयणमयपायवीढोववेय-सीहासणसमेया ।।२५४ ।। किल ब्रह्मज्ञानोत्पत्तेः प्रभृति भगवतामर्हतामङ्गानुलग्नं निजतेजस्तिरस्कृततरणिमण्डलं [भामण्डल] प्रादुर्भवति । तदर्थमुक्तं - निजतेजस्तृणीकृतचण्डभानुभामण्डलानुगतदेहाः । तथा विहारक्षणे ह्यर्हतां शिरसि श्वेतातपत्रत्रयमिव गगनगतं पृष्ठत: सपादपीठं मणिमयं मृगेन्द्रासनमुपैति । तेनैवमुक्तं रत्नमयपादपीठोपपेतसिंहासनसमेताः ।।२५४ ।। तथा -
संभमचलिरचउबिह-देवनिकाएहिं कोडिसंखेहिं ।
सेविजंता ठाणे ठाणे निम्मियसमोसरणा ।।२५५।। किल विमलकेवलोत्पत्तेरनन्तरं लोकोत्तरार्हन्त्यमाहात्म्याद् भगवन्तोऽर्हन्तो नक्तन्दिनं बोधिनिमित्तं संशयशतापनोदाय च गमनागमनपरैर्जघन्यतोऽपि कोटिसङ्ख्यै किनिकरैरमुक्तसन्निधयो भवन्तीत्यतः प्रोक्तम्-सम्भ्रमचलद्भिश्चतुर्विधैरपि देवनिकायैः कोटिसङ्ख्यैः सेव्यमानाः । तथा स्थाने स्थाने भव्यजनप्रबोधार्हे तैरेव त्रिदशसमूहैर्भगवत्प्रभावप्रेरितैर्धर्मदेशनाप्रवृत्तिनिमित्तं निर्मितमणिस्वर्णरजतमयचतुर्गोपुरोपशोभितगगनगतदिव्यसमवसरणाः ।।२५५ ।। तथा - गाथा-२५३ 1. तुला - तवेन्दुधामधवला चकास्ति चमरावली । हंसालिरिव वक्त्राब्जपरिचर्यापरायणा ।।।
- वीत. स्तो.५/४ ।। 2. तुला - मिथ्यादृशां युगान्तार्कः सुदृशाममृताञ्जनम् । तिलकं तीर्थकृल्लक्ष्म्याः पुरश्चक्रं तवैधते ।। एकोऽयमेव जगति स्वामीत्याख्यातुमुच्छ्रिता । उच्चैरिन्द्रध्वजव्याजात्तर्जनी जम्भविद्विषा ।।
- वीत. स्तो. ४/१-२ ।। गाथा-२५४ 1. तुला - यन्मूर्धः पश्चिमे भागे जितमार्तण्डमण्डलम् । मा भूद्वपुर्दुरालोकमितीवोत्पिण्डितं महः ।।
- वीत. स्तो. ३/११ ।। 2. तुला - मृगेन्द्रासनमारूढे त्वयि तन्वति देशनाम् ।
श्रोतुं मृगास्समायान्ति मृगेन्द्रमिव सेवितुम् ।। - वीत. स्तो. ५/५ ।। गाथा-२५५ 1. तुला - जघन्यत: कोटिसङ्ख्यास्त्वां सेवन्ते सुरासुराः ।
भाग्यसम्भारलभ्येऽर्थ न मन्दाअप्युदासते ।। - वीत. स्तो. ४/१४ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org