________________
हितोपदेशः । गाथा-२५०, २५१, २५२, २५३ - जिनेश्वराणां भावोपकारः ।।
____३०३
भावोपकारमेव दर्शयति -
पडिवजिऊण तिविहं तिविहेण जिणुत्तमा विरइमग्गं ।
तिव्वतवतवियतणुणो दुग्गुवसग्गे अहिसहित्ता ।।२५०।। तीर्थनाथा वसुधां विहरन्तीत्युत्तरगाथायां सम्बन्धः । किं कृत्वा ? विरतिमार्ग सर्वसंवराध्वानं प्रतिपद्य । कथं ? त्रिविधं त्रिविधेन मनोवाक्कायैः करणकारणानुमतिभिश्च सर्वसावद्यपरिहारपुरःसरं यथा भवति । किम्भूताः? तीव्रतपस्तापिततनवश्चतुर्थादिना वत्सरपर्यन्तेन तीव्रण तदितरनरदुष्करेण तपसा ग्लपितकार्मणतनवः । पुनः किं कृत्वा? दुर्गान् क्लीबजनदुर्विषहान् सुरनरतिर्यग्जनितानुपसर्गान् यातनाविशेषानधिसह्य ।।२५० ।। तथा -
सुक्कज्झाणानलसंपलित्त-घणघाइकम्मवणगहणा ।
अप्पडिहयमप्पडिमं केवलनाणं समणुपत्ता ।।२५१॥ शुक्लध्यानानलसम्प्रदीप्तघनघातिकर्मवनगहनाः । अत एव केवलज्ञानं समनुप्राप्ताः । किम्भूतम् ? अप्रतिहतं द्रव्यक्षेत्रकालभावैरव्यवहितम् । अत एवाप्रतिमम् अवधिज्ञानादिभिरनुपमेयम् ।।२५१।। तथा -
सुररइयकणयमयकमल-कनिकयासनिवेसियपयग्गा ।
सिरधरियधवलछत्त-त्तयपयडियतिहुयणपहुत्ता ।।२५२।। किल 'केवलोत्पत्तेस्तीर्थकरात्रिदशविहितचामीकरसरसिजेष्वेव चरणन्यासं विदधति, न भूमौ । तेनेदमुक्तं - सुरविरचितकनकमयकमलकर्णिकासत्रिवेशितपदाग्राः । तथा शिरोविधृतोद्दण्डवैडूर्यदण्डमण्डितधवलछत्रत्रयप्रकटितत्रिभुवनप्रभुत्वाः । किल यो हि यावतां भुवनानामधिपतिस्तस्य तावन्त्यातपत्राणि ध्रियन्ते, भगवन्तस्तु भुवनत्रयाधिपतय इति तदुपरि छत्रत्रयम् ।।२५२।। तथा -
सुरवइकरकमलपणुल्ल-ससिकरायारचामरुप्पीला । दिप्पंतपुरस्सरधम्म-चक्कसप्पंतइंदझया ।।२५३।।
-
गाथा-२५२ 1. तुला - यत्र पादौ पदं धत्तस्तव तत्र सुरासुराः । किरन्ति पङ्कजव्याजाच्छ्रियं पङ्कजवासिनीम् ।।
- वीत. स्तो. ४/३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org