SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ ३०२ एवं जिणा घणा इव विउलदया भूरिकणयधाराहिं । निव्वाविंति सुदुस्सहदोगञ्चदवद्दियं लोयं । । २४६।। हितोपदेशः । गाथा - २४६, २४७, २४८, २४९ - जिनेश्वराणां द्रव्योपकारः ।। एवं यन्मार्गितदानेन संवत्सरं यावज्जिनास्तीर्थकृतः सुदुस्सहदौर्गत्यदवार्दितं रौद्रदारिद्र्यदावानलग्लपितं लोकं भुवनजनं निर्वापयन्ति । काभिः ? भूरिकनकधाराभिः प्रचुरस्वर्णच्छटाभिः । उपलक्षणं चैतत् करितुरगकोशदेशादीनाम् । किम्भूता भगवन्तः ? विपुलदया निरवधिकरुणारससरस्वन्तः । के इव ? घना इव । यथा घनाः पयोदाः प्रचुरवारिधाराभिः सुदुस्सहदवार्दितं लोकं निर्वापयन्ति । तेऽपि विपुलदकाः प्रभूताम्भः सम्भारसम्भृता भवन्ति ।। २४६ ।। एवं जिनदानस्वरूपमभिधाय प्रकृते योजयन्नाह - ताज निबद्धतित्थयर - नामगोया अवस्ससिवगामी । एवं दव्वयारं करिंसु किर भुवणगुरुणो वि ।। २४७ ।। सइ सामग्गिविसेसे तम्हा सेसेहिं तत्थ सविसेसं । सव्वायरेणं संदिद्धसिद्धिगमणेहिं जइयव्वं ।। २४८ ।। तद् यदि भुवनगुरवः श्रीमदर्हन्तोऽप्येवं पूर्वोक्तप्रकारेण द्रव्योपकारमकार्षुः । किम्भूताः ? निबद्धतीर्थकरनामगोत्राः, निकाचितसर्वोत्तमतीर्थकृत्सम्पदः । अत एवावश्यशिवगामिनस्तस्मात् सति सामग्रीविशेषे शेषैस्तदितरैस्तत्र द्रव्योपकारे सविशेषं सर्वादरेण यत्नः कार्यः । किम् ? इत्याह सन्दिग्धसिद्धिगमनैः । किमुक्तं भवति ? किल सकलान्यपि सच्चेष्टितानि तावदुत्तमपुम्भिरपुनर्भवायाद्रियन्ते तत्प्राप्तिकृतनिश्चयाश्च तीर्थकृतोऽपि यदि द्रव्योपकारमकार्षुस्तत् कथं संशयितशिवपदप्राप्तिभिस्तदितरैस्तत्र निरुद्यमैर्भूयत इति ।। २४७ ।। २४८।। इदानीं जिनानां द्रव्योपकारं निगमयन् भावोपकारं चोपक्षिपन्नाह एसो दव्वयारो जिणाण संखेवओ समक्खाओ । इन्हिं भावुवारं पि किंपि लेसेण साहेमि ।। २४९।। सुगमा ।।२४९।। Jain Education International 2010_02 For Private & Personal Use Only - www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy