________________
हितोपदेशः । गाथा-२४२, २४३, २४४, २४५ - परोपकारस्य भेदद्वयम् ।। जिनेश्वराणां द्रव्योपकारः ।। ३०१
श्चावस्थौचित्येन स्वयमात्मना समाचीर्णस्तथाऽन्येषामपि मुक्त्यर्थिनां कर्त्तव्यतयोपदिष्ट इति ।।२४१।। तत्र तावदादौ तेषां द्रव्योपकारमाह -
मुणिऊण विरइसमयं जगप्पईवाण जिणवरिंदाणं ।
भत्तिभरभरियहियओ सोहम्मवई सुरवरिंदो ।।२४२।। जिंभगदेवेहितो समंतओ नट्ठकेउसेऊहिं । भूगोलनिलीणेहिं असामिएहिं निहाणेहिं ।।२४३॥ पूरइ कोसागारे जिणाण जगबंधवाणमणवरयं ।
संवच्छरियं करुणाइ तो पयर्टेति ते दाणं ।।२४४।। विशेषकम् ।। इदं तु गाथात्रयमपि निगदसिद्धमेव । केवलं प्रथमगाथायां विरतिसमयमिति सर्वविरतिप्रतिपत्तिप्रस्तावमित्यर्थः ।।२४२।।
द्वितीयगाथायां तु निधानैर्नष्टकेतुसेतुभिरिति - तत्र केतवः सेवधिवसुधयोरन्तराले निक्षिप्तानि सुघटितवृत्तत्र्यस्रचतुरस्ररूपाणि नानावर्णानि पाषाणशकलादीनि चिह्नानि । सेतवस्तु गगनदिग्विभागभूगोलावगाहादयः ।।२४३ ।।।
तृतीयगाथायां तु करुणयेति - करुणया सर्वसत्त्वसाधारण्या कृपयैव । न तु प्रत्युपकृतिप्रसिद्धिभोगादिवाञ्छया । अत एव जगद्बान्धवानामिति भगवद्विशेषणम् ।।२४४ ।। तच्च सांवत्सरिकं दानं कथं दीयत ? इत्याह -
अकलियपत्तापत्तं अविभावियसगुणनिग्गुणविभागं ।
अगणियमित्तामित्तं दिजइ जं मग्गियं दाणं ।।२४५।। स्पष्टा ।। नवरं 'जं मग्गियं ति' वरवरिकाघोषणपुरस्सरं यो यन्मृगयते तस्मै तद्दीयत इति यन्मार्गितम् ।।२४५।।
गाथा-२४५ 1. तुला - “'सिंघाडगतियं चउक्कचञ्चरचउमुहमहापहपहेसु दारेसु पुरवराणं रच्छामुहमज्झयारेसु - वरवरिया घोसिज्जइ किमिच्छियं दिज्जए बहुविहीअं सुर असुर देवदाणवनरिंदमहियाण निक्खमणे त्ति ।।
- आव. निर्यु. २१९ ।। १. छाया - शृङ्गाटकत्रिकचतुष्कचत्वरश्चतुर्मुखमहापथपथेषु द्वारेषु पुरवराणां रथ्यामुखमध्येषु वरवरिका घोष्यते किमीप्सितं दीयते सुरासुरदेवदानवनरेन्द्रमहितानां निष्क्रमणे ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org