________________
३०० हितोपदेशः । गाथा-२३९, २४०, २४१ - परोपकारः आत्मोपकारः ।। परोपकारस्य भेदद्वयम् ।।
स्वर्णपुरुषस्वर्णाचलप्रभृतयोऽप्युपकारिकरगोचरमवतरन्ति । तदा न दाता तानपि नियतं ददात्येवेति ।।२३८ ।। किञ्च -
उवयारखणे समुवट्ठियम्मि उवयारिणो तणुधणस्स ।
जं होइ मणे दुक्खं मुणइ परं पारगो जइ तं ।।२३९।। उपकारिणः स्थूललक्षस्य कुतोऽप्यन्तरायादिदोषात् तनुधनस्य क्षीणविभवस्य उपकारक्षणे अवश्यविधेये समुपस्थिते सति तनुवित्तत्वेन स्वमनोरथानुरूपं दानं दातुमसमर्थस्य ।
जीवति स जीवलोके यस्य गृहाद् यान्ति नार्थिनो विमुखाः । भृतकवदितरजनोऽसौ दिवसान् पूरयति देवस्य ।।१।। तथा - परपत्थणापवनं मा जणणि ! जणेसु एरिसं पुत्तं ।
उयरे वि मा धरिजसु पत्थणभंगो कओ जेण ।।२।।[ ] इत्यादि सखेदं चिन्तयतो मनसि यदुःखं प्रादुर्भवति तद् यदि पारगत एव भवाकूपारपरतटप्राप्तः सर्वविदेव जानीते, नान्य इति ।।२३९।। तथा -
विहवाईहिं परेसि जं उवयरणं परोवयारो सो ।
अनिउणवयणमिणं नणु एसो अत्तोवयारो जं ।।२४०।। किलेदं परोपकारशब्दस्य निरुक्तम् - यत् विभवादिभिर्धनधान्यादिप्रदानविपदुद्धरणप्रभृतिभिः परेषामुपकरणं स परोपकारः । इदं तु तत्त्वरूपमप्यनिपुणवचनमिव प्रतिभाति । यतो न खल्वयं परोपकारः, किन्तु परमार्थबुद्ध्या आत्मोपकार एवायम् । उक्तं च - ___दानपात्रमधमणमिहैकग्राहि कोटिगुणितं दिवि दायि ।
साधुरेति सुकृतैर्यदि कर्तुः पारलौकिककुसीदमसीदन् ।।१।। [ अतः कथं नायमात्मोपकार इति ।।२४०।। साम्प्रतं परोपकारस्य पूर्वोद्दिष्टं भेदद्वयं दर्शयति -
उवयारो पुण दुविहो दब्वे भावे य दिव्वनाणीहिं ।
सयमेव समायरिओ तह अनेसि पि उवइट्ठो ।।२४१।। अयं तु उपकारो दिव्यज्ञानिभिर्विमलकेवलालोकभास्करैर्भगवद्भिरर्हद्भिर्द्रव्यरूपो भावरूप
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org