________________
ग्रन्थकारस्य परिचयः kiralasahakalukkakearate
जिनशासनगगनाजीरे तीर्थकृतो लोकोद्योतकरा भानवो बभूवुः, गणभृतश्च शशभृतः संजज्ञिरे, पञ्चाचारभृतः प्रवचनरक्षणविचक्षणा आचार्यवर्या तारकनिकरा नितरां विरेजिरे ।
कतिपया आचार्या आचारैः शासनं भासयामासुः, केचन सूरिवराः सुरगुरुप्रतिभाः श्रुतसमाराधनया शासनं समर्थयामासुः, केचन तपोभिः, केचन विद्याभिः, केचन प्रवचनकलाभिरपि शासनगगनं प्रभावयामासुः । तेषु प्रस्तुतग्रन्थकाराः पूज्याचार्यश्रीप्रभानन्दसूरयो हितोपदेशग्रन्थविरचनेन तथा ग्रन्थविवरणकाराः पृज्याचार्यश्रीपरमानन्दसूरयो तदुपरि हितोपदेशामृतविवरणप्रणयनेन चाज्ञानान्धकारं सञ्चूर्णयामासुः । बहुलतया चरणकरणानुयोगप्रधानं ग्रन्थमिमं तस्य विवरणं च जग्रन्थुः ।
वैक्रमीये युगगगनशिवनयनधरित्रीवर्षे (१३०४ तमे) इमौ पूज्यौ श्रीप्रभानन्द-श्रीपरमानन्दाचार्यवयाँ सौदों रुद्रपल्लीयपूज्याचार्यश्रीदेवभद्रसूरिशिष्यौ बभूवतुः ।
पूज्यश्रीदेवभद्रसूरिवरस्तु रुद्रपल्लीयगच्छस्थापकस्य जयन्तविजयकाव्यकारस्य (१२७८ संवते) _1. रुद्रपल्लीयश्रीवर्द्धमानसूरिविरचिते वैक्रमीये-१४६८ संवते रचिते श्रीआचारदिनकराख्ये शास्त्रे तद्गुरुपर्वक्रमो यदुपलब्धोऽस्ति स चायम् -
पूर्वं श्रीहरिभद्राख्यः सूरीन्द्रो भद्रदर्शनः । तत्र वित्रस्तवादीभः पञ्चवक्त्रो व्यराजत ।।७।। श्रीयाकिनीवदनसंभववाक्यलेशं, सम्यग्विधाय हृदये विलसद्वयेन । येनावनं सुगतसाधुजनस्य चक्रे, चित्रं तदत्र मुनयो विमृशन्ति चित्ते ।।८।। देवचन्द्रस्ततः सूरिश्चन्द्रतां प्रत्यपद्यत । मोहान्धकारसंसारतापपीडितचेतसाम् ।।९।। श्रीनेमिचन्द्रसूरीन्द्रो भूषयामास तत्पदम् । तत उद्योतन: पट्टोद्योतं तस्य विनिर्ममे ।।१०।। ततः श्रीवर्द्धमानाख्यः सूरिदुर्वादिनां मदम् । वर्धयन्वर्धयामास समस्तं जिनशासनम् ।।११।। श्रीमजिनेश्वरः सूरिजिनेश्वरमतं ततः । शरद्राकाशशिस्पृष्टसमुद्रसदृशं व्यधात् ।।१२।। नवाङ्गवृत्तिकृत्पट्टेऽभयदेवप्रभुर्गुरोः । तस्य स्तम्भनकाधीशमाविश्चक्रे समं गुणैः ।।१३।। श्राद्धप्रबोधप्रवणतत्पट्टे जिनवल्लभः । सूरिर्वल्लभतां भेजे, त्रिदशाणां नृणामपि ।।१४।। ततः श्रीरुद्रपल्लीयगच्छसंज्ञालसद्यशाः । नृपशेखरतां भेजे सूरीन्द्रो जिनशेखरः ।।१५।। दुर्वादिपद्मचन्द्राभां पद्मचन्द्रगणाग्रणी: । बभार तत्पदे पद्मां मुदा निच्छद्मताम् ।।१६।। श्रीमानन्विजयचन्द्राख्यः सूरिविजयमादधे । ततस्तस्य पदे रेजेऽभयदेवगणाधिपः ।।१७।। देवभद्रस्ततो भद्रङ्करसूरिरजायत । प्रभानन्दो महानन्दं, ततःसङ्ग्रेऽप्यवर्धयत् ।।१८।। तेन गुरुपर्वक्रमस्तु भवतीत्थम् - * १८ तमे श्लोके श्रीदेवभद्रसूरेः पट्टे श्रीभद्रङ्करसूरि इति पर्वक्रमः सामान्येन दृश्यते परं सूक्ष्मैक्षिकया तु ‘भद्रङ्करसूरि'
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org