________________
२९८ हितोपदेशः ।गाथा-२३३, २३४,२३५,२३६ - अपरोपकारिणांजगतिजघन्यताम् ।।परोपकृतेः पुण्यतमत्वम् ।।
के के जम्मणजरमरणसलिलपडलाउले भवसमुद्दे । जलबुब्बुय व्व नियकम्मपवणपहया नरा न गया ।।२३३।। नियजढरपिढरभरणिक्क - मित्तजत्ताण ताण नामं पि ।
को नाम मुणइ मणुयाहमाण अपरोवयारीणं ।।२३४।। यतोऽस्मिन् भवसमुद्रे संसारसरस्वति जलबुबुदप्रायाः के के नराः पुरा नातिचक्रमुः । किम्भूते? जन्मजरामरणसलिलपटलाकुले उत्पादविश्रसाव्ययवारिपूर्णे । नराः किम्भूताः ? निजकर्मपवनप्रहता: कर्मपारतन्त्र्येण हि प्राणिनामेहिरेयाहिराः क्रियाः सम्पद्येरन् । समुचितश्च प्रभञ्जनाविद्धे पयसि बुबुदविलयः । अतस्तथाविधानां मनुष्याधमानां नामापि, नामेति प्रसिद्धमेतत् को वेत्ति? अपि तु न कोऽपि । किंविशिष्टानां? निजजठरपिठरभरणैकमात्रमेव यात्रा येषां ते तथा । यदि वा स्वोदरपिठरपरिपूरणैकमात्रयत्नानां । ते हि सम्पूर्णे स्वोदरे त्रिभुवनमपि परिपूर्णमाकलयन्ति । अत एव मनुष्याधमत्वं तेषामपरोपकारिणां सर्वथैव परोपकृतिमन्थरमनसाम् ।।२३३ ।।२३४।। साम्प्रतं परोपकारिषु व्यतिरेकमाह -
जे उण परोवयारं करिंसु इह केइ पुरिससइँला ।
दिसिवलएसु विसप्पइ तेसिं जसपडहनिग्योसो ।।२३५ ।। ये पुनरिहास्मिन् जगति केऽपि जगद्विलक्षणस्वरूपास्तेनैव पुरुषशार्दूलशब्दसंशब्दनीयाः । परोपकारं द्विभेदमपि वक्ष्यमाणलक्षणमकार्षः । तेषां दिग्वलयेषु सम्प्रत्यपि यशःपटहनिर्घोषः प्रसर्पति । कोटीकोटिसागरप्रमितकालान्तरिता अपि विद्यमाना इव ते सर्वत्रापि सादरं गीयन्त इत्यहो परोपकृतेः पुण्यतमत्वमिति ।।२३५ ।। पुनरनुपकारिण एव तिरस्कुर्वन्नाह -
जेसिं परोवयरणे न फुरइ बुद्धी वि कीवपयईणं ।
उब्बियइ उव्वहंती तेसिं भारं धुवं धरणी ।।२३६।। येषां तु क्लीबप्रकृतीनां सत्त्वशून्यचेतसां परोपकरणे, आसातां वाग्वपुषी, बुद्धिरपि न स्फुरति, तेषामन्तर्ग/प्रायाणां पुसां भारमुद्वहन्ती ध्रुवं निश्चितं सर्वंसहापि धरणी किममी दुरात्मानो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org