________________
हितोपदेशः । गाथा-२३१, २३२ - उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे षष्ठं परोपकारप्रतिद्वारम् ।। २९७
जह पावियं पइट्ठ भूवढे तेण पेइयं रज्जं । तह निययं पि हु संजमरजं निरवजजोगेणं ।।१५०।। समयमथ विदित्वा भावतः शोधयित्वा, तनुमनशनचर्यामुज्वलां चाकलय्य । नयविनयविवेकच्छेकधीः स्वायुषान्ते, मुनिरभयकुमारः प्राप सर्वार्थसिद्धम् ।।१५१।। एवं च - प्रसूते विश्वासं शमयति च तापं मनसिजम् । सृजत्यन्तः प्रीतिं विपदमुदितां मन्थरयति ।। शरज्योत्स्नापाण्डं प्रकटयति कीति त्रिभुवने । प्रयुक्त: पूज्येषु प्रथयति नृणां किं न विनयः ।।१५२।। ततश्च - सौभाग्यदैवतगणस्मरणश्रमैः किं, किं वा वशीकरणकार्मणयोगचूण्णैः । अभ्यस्यतां विनय एव विनैव खेदं, यस्माजगन्त्यपि भवन्ति वशंवदानि ।।१५३।।
इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचिते हितोपदेशामृतविवरणान्तर्वतिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे पञ्चमं विनयप्रतिद्वारं
समाप्तमिति ।। श्रीः ।।२३० ।। उक्तं विनयद्वारम्, साम्प्रतं परोपकारद्वारं व्याजिहीर्षुराह -
जणमणनयणाणंदं जणेइ एमेव ताव सुविणीओ ।
जइ पुण परोवयारी वि हुज ता किंत्र पजत्तं ।।२३१।। सुविनीतः स्वभ्यस्तविनयः पुमानेवमेव परोपकारादिविरहितोऽपि तावत् जनमनोनयनानन्दं जनयति । यदि पुनस्तथाविधशुभसम्भारवशाद् विनीतत्वे सति परोपकारित्वमपि स्यात् तदा किं न पर्याप्तम् ? केन गुणेनाऽसौ न्यून इति ।।२३१ ।। एवं च सति किं विधेयमित्याह -
तम्हा सइ सामत्थे जइज्ज पुरिसो परोवयारम्मि ।
पसरइ कित्ती जत्तो मयंककरकोमला भुवणे ।।२३२।। तस्मात् सति सामर्थ्य पुरुषः पुरुषार्थसार्थसाधनपटुः पुमान् परोपकारे वक्ष्यमाणलक्षणे यतेत यत्नं विदध्यात् । किम्? इत्याह - यतो यस्मात् परोपकाराद् भुवने जगति कीर्तिः प्रसरति प्रसिद्धिः प्रोल्लसति । किम्भूता? मृगाङ्ककरकोमला हरिणलाञ्छनज्योत्स्नाछविः ।।२३२ ।।
अपरोपकारिणां तु जगति जघन्यतामुद्भावयति -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org