________________
२९०
तथा
-
हुति गुरू सुपसन्ना, विन्नाणमणुत्तरं उवइसंति ।
दुर्द्दता विहु पहुणो, कुणंति वयणं विणीयस्स ।। २२७ ।।
हितोपदेशः । गाथा - २२७, २२८, २२९,२३० विनयस्य महिमा ||
1
विनीतस्य पुंसो गुरवः पितृमातृकलाधर्माचार्यप्रभृतयः सुष्ट्वतिशयेन प्रसन्नाः प्रसादभाजो भवन्ति । तथाविधाश्च किं कुर्वन्तीत्याह - विज्ञानं विशिष्टज्ञानमुपदिशन्ति । किम्भूतमनुत्तरं, न विद्यतेऽन्यदुत्तरं यस्मात्तदनुत्तरं सर्वोत्कृष्टमित्यर्थः । न खलु विनयादपरापि परपुरप्रवेशविद्या, तेन च सौमनस्यभाजो व्यञ्जयन्त्येव सर्वमन्तस्तत्त्वं गुर्वादयः । तथा आसतां तावत् कान्तैर्गुणैरभिगम्याः । यावत् दुर्दान्ता अपि भीमैर्गुणैरधृष्या अपि प्रभवः स्वामिनो विनीतस्य वचनमनुमन्यते । क्रमादनुकूलमनसश्च कल्पतरव इव कैः फलैर्न फलन्तीति न किञ्चिदसाध्यं विनयस्य ।। २२७ ।। किञ्च -
निद्धे वि बंधवे उब्वियंति, नयणाई दुव्विणीयम्मि । सुविणीए उण दिट्ठे, परे वि परमं पमयमिति ।। २२८ ।।
एवं च
स्निग्धे स्नेहनिबन्धने बन्धौ प्रियापत्यप्रायेऽपि दुर्विनीते विनयव्यपेते दृष्टिसाक्षात्कृ पितृप्रभृतीनामपि नयनान्युद्विजन्ति । किमर्थमसौ दृश्यत इत्यरतिभाजो भवन्ति ? सुविनीते तु विनयगुणान्विते परे ऽपरिचिते उदासीनेऽपि दृष्टे तान्येव प्रेक्षकाक्षीणि परमं प्रकृष्टं प्रमदमान्तरं प्रीतिप्रकर्षमुत्कर्षयन्ति । तस्मादकारणं ज्ञातिसम्बन्धः प्रीत्यप्रीत्योर्विनयस्यैव प्रायस्तन्निबन्धनत्वात् ।।२२८।।
-
-
चिंतामणी मणीण व, अमरतरूणं च पारियाउ व्व ।
मेरु व्व पव्वयाणं, गुणाण सारो परं विणओ ।।२२९ ।।
स्पष्टा ।। नवरममरतरवः सन्तानकाद्यास्तेषु पारिजातस्य प्रकृष्टतमत्वम् ।।२२९ ।।
एवं विनयगुणमुपस्तुत्य तद्वन्तमेव दृष्टान्तेन स्पष्टयति -
Jain Education International 2010_02
विणएण पुच्छणिज्जो, जायइ विसंभभायणं च नरो ।
जह सेणियस्स रनो, पए पए पियसुओ अभओ ।। २३० ।।
For Private & Personal Use Only
www.jainelibrary.org