________________
हितोपदेशः । गाथा-२२४, २२५ - विनयस्य महिमा ।।
२८९
यथा चायं मोक्षाय प्रवर्त्तते तथा दर्शयति -
पडिवक्खविउडणेणं घडिज्ज मुक्खाय विणयपडिवत्ती ।
ता माणमलणपुव्वं वट्टह विणए जओ भणियं ।।२२४।। इयं च लोकोत्तरा विनयप्रतिपत्तिर्मोक्षाय महोदयाय नियतं घटेत साधकतमकारणत्वेन सम्पद्येत । कथमित्याह - प्रतिपक्षवियोजनेन विनयविपक्षदूरोत्सारणेन । ततः किं विधेयम् ? इत्याह - तत् तस्मान्मानमलनपूर्वमहङ्कृतिनिकृन्तनपुरस्सरं विनये प्रोक्तस्वरूपे वर्तध्वम् । 'सति हि समुत्ताने माने कौतुस्कुती विनयप्रवृत्तिः' । न चेदं स्वबुद्ध्यध्यवसितमित्याह - 'जओ भणियं' यत् यस्माद् भणितमाप्तोक्तौ ।।२२४ ।।
मूलं संसारस्स उ हुंति कसाया अणंतपत्तस्स ।
विणओ ठाणपउत्तो दुक्खविमुक्खस्स मुक्खस्स ।।२२५ ।। कषायाः क्रोधादयः षोडशापि संसारस्य मूलं हेतुः । किम्भूतस्य ? अनन्तत्वप्राप्तस्य अनादिनिधनस्य । कषायाणां हि मुख्यतया कर्मबन्धहेतुत्वात् । कर्मणां च भवहेतुत्वादिति समीचीनमिदम् । विनयस्य कषायेभ्यो व्यतिरेकमाह-विनयस्तु स्थानप्रयुक्तः स्थानेषु श्रीमदाचार्यादिषु यथार्हं प्रयुक्तो मोक्षस्यापुनर्भवस्य मूलं कारणम् । किम्भूतस्य? दुःखविमोक्षस्य आत्यन्तिकदुःखविमोक्षलक्षणस्य । प्रयुक्तो हि विधिवद् विनयः शनैः शनैथुनोति कर्मबन्धनिबन्धनान् सम्परायान् । कर्मक्षये चाक्षेपलभ्यो मोक्ष इति ।।२२५ ।। पुनर्विनयमेव प्रस्तौति -
पयडिजइ कुलममलं कलाकलावो वि पयरिसं लहइ ।
वित्थरइ साहुवाओ विणयगुणे विप्फुरंतम्मि ।।२२६ ।। अस्मिन् विनयगुणे विस्फुरति पुंसामेतदेतद् भवति । तदाह - अमलं निर्मलं कुलमन्वयः प्रकटीभवति । 'नैसर्गिकी हि प्रायोऽभिजातानां विनयवृत्तिः' । तथा कलाकलापः प्रकर्ष परभागं लभते । 'सति हि विनयगुणे गौरवभाज: कलाः' । विस्तरति सर्वत्र साधु विनीतोऽयमिति शिष्टजने वादः ।।२२६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org