________________
हितोपदेशः । गाथा-२२०, २२१ - लोकोत्तरविनयस्य प्रकाराः ।।
२८७
ज्ञानादिविनयानेव प्रतिपदं व्याचष्टे -
सो होइ नाणविणओ जं सम्मं नाणपुब्बिया किरिया । स भवति ज्ञानविनयः, यत् सम्यक्ज्ञानपूर्विका क्रिया । ज्ञानस्य च सम्यक्त्वं सङ्क्षपाद् विस्तरतो वा जिनोक्ततत्त्वानां यथावदवबोधैः, तत्पूर्विका च क्रिया दशविधचक्रवालसामाचारीरूपा, सैव च सम्यगासेविता ज्ञानविनयः । दर्शनविनयमाह -
दंसणविणओ पुण जिणवरुत्ततत्ताण सद्दहणं ।।२२० ।। तेषामेव जिनवरोक्तानां सर्वज्ञोपज्ञानां जीवादिपदार्थानां यत् रुचिरूपं श्रद्धानं तथेति प्रत्ययः स दर्शनविनयः ।।२२० ।। चारित्रतपोविनयावाह -
चरणे तवम्मि य इमो विणओ तेसिं जहुत्तकरणं जं । चारित्रे महाव्रतसमितिगुप्तिक्षान्त्यादिरूपे वक्ष्यमाणलक्षणे । तपसि बाह्याभ्यन्तरभेदभिन्ने पूर्वोपवर्णितस्वरूपे । अयमेव विनयः - तयोरुभयोरपि जिनोदितेन पूर्वाचार्यप्रकाशितेन च विधिना करणमनुष्ठानम् । औपचारिकं विनयं ब्रूते -
उवयारिओ उ विणओ आयरियाईसु इय नेओ ।।२२१।।
अभिग्रहो गुरुनियोगकरणाभिसम्बन्धः । संसाधना गच्छतोऽनुव्रजनम् । वाग्विनयश्चतुर्विधो यथा - "हिअमिअफरुसभासी अणुवाईभासि वाइओ विणओ" 'अणुवाई' त्ति अनुविचिन्त्यभाषी । मानसिको द्विविधो यथा - "अकुसलमणोनिरोहो कुसलमणउदीरणं चेव" त्ति ।
औपचारिक: सप्तविधस्तूक्त एवेति । धर्मसं. तृतीयाधिकारे गा. १२५ वृत्तौ । विनयस्य चातुर्विध्यम् - ज्ञानदर्शनचारित्रोपचाराः ।।
___ - तत्त्वा . ९/२३ ।। विनयश्चतुर्भेदः । तद्यथा - ज्ञानविनयः, दर्शनविनयः, चारित्रविनयः, उपचारविनयः इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः । दर्शनविनयस्त्वेकविध एव सम्यग्दर्शनविनयः । चारित्रविनयः पञ्चविधः - सामायिकविनयादिः । औपचारिकविनयोऽनेकविधः - सम्यग्दर्शनज्ञानचारित्रादिगुणाधिकेषु अभ्युत्थानासनप्रदानवन्दनानुगमनादिः ।।।
- तत्त्वा . स्वो. भा. ९/२३ ।।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org