________________
२८६
हितोपदेशः । गाथा-२१९ - लोकोत्तरविनयस्य प्रकाराः ।।
ग्रन्थान्तरेषु बहुधाभिधानात् । पञ्चधात्वमेव व्यनक्ति नाणंमि ज्ञानविषये, दंसणम्मि दर्शनविषये, चरणम्मि चारित्रे, तवम्मि तपोविषये, उवयारे उपचारेगोचरो विनय इति ।।२१९ ।।
""मण-वय-काइयविणओ आयरियाईण सव्वकालम्मि । अकुसलमणाइरोहो कुसलाणमुदीरणं तह य ।।२।।" तथा उपचारेण - सुखकारिक्रियाविशेषेण निवृत्त औपचारिकः स चासौ विनयश्च औपचारिकविनयः, स च सप्तधा"अब्भासऽच्छणं छंदाणुवत्तणं कयपडिकिई तह य । कारिअनिमित्तकरणं दुक्खत्तगवेसणं तह य ।।१।। 'तह देसकालजाणण सव्वत्थेसु तह य अणुमई भणिया । उवयारिओ उ विणओ एसो भणिओ समासेणं ।।२।।"
तत्र 'अब्भासऽच्छणं'ति सूत्राद्यर्थिना नित्यमेवाचार्यस्याभ्यासे - प्रत्यासन्ने स्थातव्यम्, तथा छन्दः - अभिप्रायो गुरूणामनुवर्तनीयः, तथा कृतप्रतिकृतिः - कृते भक्तादिना उपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रार्थादिदानतो मे करिष्यन्ति, न नामेकैव निर्जरेति भक्तादिदाने गुरोर्यतितव्यम्, तथा कार्यनिमित्तकारणम्, कार्य-श्रुतप्रापणादिकम्, निमित्तं-हेतुं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण तस्य विनये वर्तितव्यम्, तदनुष्ठानं च कर्तव्यम्, यद्वाकारितेन-सम्यक्सूत्रार्थमध्यापितेन पुनस्तन्निमित्तं करणं-विनयस्य विधानं कारितनिमित्तकारणम्, गुरुणा सम्यक् सूत्रादिकं पाठितेन विनेयेन विशेषतो विनये वर्तितव्यं तदुक्तार्थानुष्ठानं च कर्त्तव्यमिति भावः, तथा दुःखार्तस्य दुःखपीडितस्य गवेषणम् - औषधादिना प्रतिजागरणं दुःखार्त्तगवेषणम्, पीडितस्योपकारकरणमित्यर्थः, तथा देशकालज्ञानमवसरज्ञतेत्यर्थः, तथा सर्वार्थेषु गुरुविषयेष्वनुमतिः - आनुकूल्यम् ।।
- प्रव. सा. गा. २७१ टीकायाम् ।। धर्म सं. तृतीयाधिकारे गा. १२५ वृत्तौ ।। अथवा द्विपञ्चाशद्विधो विनयो यथा - "तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिअ ६ धम्म ७ नाण ८ नाणीणं ९ । आयरिअ १० थेरु ११ वज्झाय १२ गणीणं १३ तेरस पयाई ।।१।। अणासायणा य १ भत्ती २ बहुमाणो ३ वण्णवायसंजलणा ४ । तित्थयराइ तेरस, चउग्गुणा हुँति बावन्ना ।।२।।" [दश वै. नि. ३२५-६, प्रवचनसारोद्धार-५४९-५५०] ।
___ - धर्म सं. तृतीयाधिकारे गा. १२५ वृत्तौ ।। व्यवहारभाष्ये तु ज्ञान-दर्शन-चारित्र-प्रतिरूपभेदाञ्चतुर्थोक्तस्तथा च तद्ग्रन्थः -
“पडिरूवग्गहणेणं विणओ खलु सुचिओ चउविगप्पो नाणे दंसणे चरणे पडिरूवचउत्थओ होइ" त्ति । तत्र कालेऽध्ययनादिरष्टविधो ज्ञानविनयः, निशङ्कितादिरष्टविधो दर्शनविनयः, समितिगुप्तिभेदादष्टविधश्चारित्रविनयः, कायिको वाचिको मानसिक औपचारिकश्चेति प्रतिरूपविनयश्चतुर्विधः । आह च - “पडिरूवो खलु विणओ कायवइमणे तहेव उवयारे । अट्ठ चउविह दुविहो सत्तविह परूवणा तस्स" ।।१।। त्ति । कायिकोऽष्टधा यथा - "अब्भुट्ठाणं अंजली आसयदाणं अभिग्गह किईअ सुस्सूसणा य अभिगच्छणा य संसाहणा चेव ।"
७ - छाया - मनोवाक्कायविनय आचार्यादीनां सर्वकालो । अकुशलमनआदिरोधः कुशलानां तथोदीरणं च ।।२।। ८ - छाया - अभ्यासस्थानं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च । कारितनिमित्तकरणं दुःखार्तगवेषणं च तथा ।।१।। ९ - छाया - तथा देशकालज्ञानं तथा सर्वार्थेष्वनुमतिर्भणिता । औपचारिकस्तु विनय एष भणितः समासेन ।।२।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org