SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-२१९ - लोकोत्तरविनयस्य प्रकाराः ।। २८५ त्वादेव ।।२१८ ।। साम्प्रतं लोकोत्तरविनयमाह - लोउत्तरविणओ पुण पंचविगप्पो समासओ ताव । नाणंमि दंसणमि चरणमि तवम्मि उवयारे ।।२१९ ।। लोकोत्तरविनयः पुन: समासतः सङ्क्षपतस्तावत् पञ्चविकल्पः पञ्चप्रकारः । विस्तरतस्तु गाथा-२१९ 1. तुला - ‘विणए त्ति विनीयते - क्षिप्यते अष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञानदर्शनादिभेदात् सप्तधा, यदाहुः - "'नाणे-दंसणेचरणे-मण-वय-काओवयारिओ विणओ । नाणे पंचवयारो मइनाणाईण सद्दहणं ।।१।। भत्ती तह बहुमाणो तद्दिद्वत्थाण सम्मभावणया । विहिगहणब्भासोऽवि य एसो विणओ जिणाभिहिओ ।।२।।" शुश्रूषणादिकश्च दर्शनविनयः, यदाहुः . "सुस्सूसणा अणासायणा य विणओ उ दंसणे दुविहो । दंसणगुणाहिएसुं किजइ सुस्सूसणाविणओ ।।१।। सक्कारब्भुट्ठाणं संमाणासणअभिग्गहो तह य । आसणअणुप्पयाणं किइकम्मं अंजलिगहो य ।।२।। इंतस्सऽणुगच्छणया ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुव्वयणं एसो सुस्सूसणाविणओ ।।३।।" । सत्कारः-स्तवनवन्दनादि, अभ्युत्थानं-विनयार्हस्य दर्शनादेवासनत्यजनम्, सन्मानो-वस्त्रपात्रादिभिः पूजनम्, आसनाभिग्रहः पुनस्तिष्ठत एव गुरोरादरेणा-सनानयनपूर्वकमत्रोपविशतेति भणनम्, आसनानुप्रदानं - स्थानात्स्थानान्तरे आसनस्य सञ्चारणम्, कृतिकर्म-वन्दनकम्, अञ्जलिग्रह:-अञ्जलिकरणम्, शेषं प्रकटम्, अनाशातनाविनयः पुनः पञ्चदशविधः, तस्य चेदं स्वरूपम् - “तित्थयर-धम्म-आयरिअ-वायगे थेर-कुल-गणे-संघे । संभोइअ-किरियाए मइनाणाईण य तहेव" ।।१।। साम्भोगिकाः - एकसामाचारिकाः । क्रिया-आस्तिकता । ""कायव्वा पुण भत्ती बहुमाणो तह य वनवाओ य । अरहंतमाइयाणं केवलनाणावसाणाणं ।।१।। भक्तिः - बाह्या प्रतिपत्तिः, बहुमान: - आन्तरः प्रीतिविशेषः, वर्णवादो-गुणग्रहणम्, चारित्रविनयः पुनः . “सामाइयाइचरणस्स सद्दहाणं तहेव कायेणं । संफासणं परूवणमह पुरओ सव्वसत्ताणं ।।१।।" तथा - १ - छाया - ज्ञाने दर्शने चारित्रे मनसि वाचि काये औपचारिको विनयः । ज्ञाने पञ्चप्रकारो मतिज्ञानादीनां श्रद्धानम् ।।१।। २ - छाया - भक्तिस्तथा बहुमानः तदृष्टार्थानां सम्यक्त्वभावना । विधिग्रहणमभ्यासोऽपि चैष विनयो जिनाभिहितः ।।२।। ३ - छाया - शुश्रूषणा अनाशातना च विनयस्तु दर्शने द्विविधः । दर्शनगुणाधिकेषु क्रियते शुश्रूषणाविनयः ।।१।। सत्कारोऽभ्युत्थानं सन्मानमासनाभिग्रहश्च तथा । आसनानुप्रदानं कृतिकर्माञ्जलिग्रहश्च ।।२।। आयातोऽनुगमनं स्थितस्य तथा पर्युपासनं भणितम् । व्रजतोऽनुव्रजनमेष शुश्रूषणाविनय: ।।३।। ४ - छाया - तीर्थंकरे धर्म आचार्ये वाचके स्थविरे कुले गणे सङ्के । साम्भोगिके क्रियावति मतिज्ञानादीनां च तथैव ।।१।। ५ - छाया - कर्त्तव्या पुनर्भक्तिर्बहुमानस्तथा वर्णवादश्च । अर्हदादीनां केवलज्ञानावसानानाम् ।।१।। ६ - छाया - सामायिकादिचारित्राणां श्रद्धानं तथैव कायेन । संस्पर्शनं अथ च सर्वसत्त्वानां पुरतः प्ररूपणम् ।।१।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy