SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ २८४ हितोपदेशः । गाथा-२१६, २१७, २१८ - लौकिकविनयस्य प्रकाराः ।। आसनाभिग्रहो भक्तव्या वन्दना पर्युपासनम् ।। तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः ।।२।। [योगशास्त्र प्र. ३ श्लो. १२५-१२६] तथा देवानां समुचितेष्टादीनां अतिथीनां च प्रागुक्तनिरुक्तानां पूजा समुचितः पूजोपचार इत्येष लोकोपचारविनयः ।।२१६।। द्वितीयं भयविनयमाह - चोराभिमराईसुं अंजलिबंधाइओ उ भयविणओ।। अयं तु भयविनयः, यचोराभिमरादिषु तस्करघातकादिषु समुपस्थितेषु तद्भयेन धनप्राणादिरक्षार्थं वाञ्जलिबन्धप्रणामकरणशरणप्रवेशादिकं विधीयते । अर्थविनयमाह - ___अत्थविणओ य पत्थिवपभिइसु पडिवत्तिकरणं जं ।।२१७।। अर्थविनयश्च पार्थिवोत्तमर्णप्रभृतिषु अलब्धलाभाय लब्धस्य च परिपालनाय यत् प्रतिपत्तिकरणं गौरवख्यापनम् ।।२१७ ।। कामविनयमाह - कामविणओ य कामिणिजणम्मि कामीण चाडुपभिईओ । एसो लोइयविणओ चउप्पयारो समक्खाओ ।।२१८ ।। कामविनयश्च अनङ्गक्रीडारससुखनिर्वाहार्थं कामिनीजने ललनालोके कामिनां कामुकानां चाटुप्रभृतिकः, प्रकृतिसुकुमारत्वात् स्मरव्यापारस्य । यदाहुः कामुकाः - नूमंति जे पहुत्तं कुवियं दास व्व जे पसायंति । ति चिय पिया पियाणं सेसा सामि चिय वराया ।।१।। [ इत्येष चतुष्प्रकारो लौकिकविनयः समाख्यातः । लौकिकत्वं चास्य लोके व्याप्रियमाणतदागमे गुर्वागमने, शिरसि मस्तके गुरुदर्शनसमकालमञ्जलि संश्लेषः करकोरककरणं 'नमो खमासमणाणं' ति वचनोच्चारपूर्वकम्, स्वयमित्यात्मना न तु परप्रेषणेन आसनढौकनमासनसन्निधापनम् ।। आसनाभिग्रहः आसन उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रह: आसनाभिग्रहः, भक्त्या भक्तिपूर्वकं वन्दना पञ्चविंशत्यावश्यकविशुद्धं वन्दनकम्, स्थानस्थितानां च गमनादिव्याकुलत्वाभावे पर्युपासनं सेवा, तेषां गुरूणां याने गमने ऽनुगमनं पृष्ठतः कतिपयपदान्यनुसरणम् । इयं प्रतिपत्तिरूपाचारविनयरूपा गुरोधर्माचार्यस्य ।। । - योग. शा. प्र. ३ श्लो. १२५-१२६ वृत्तौ ।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy