________________
हितोपदेशः । गाथा-२१४, २१५, २१६ - विनयस्य निरुक्तं ।। विनयस्य भेदप्रभेदाः ।
२८३
विनयस्यैव निरुक्तमाह -
जम्हा विणयइ कम्मं अट्ठविहं चाउरंतमुक्खाय ।
तम्हा उ वयंति विऊ विणउ त्ति विलीणसंसारा ।।२१४।। यस्मादष्टविधं ज्ञानावरणादिरूपं कर्म विशेषेण नयति प्रापयत्यन्तमिति शेषः । तथा चतुरन्तः संसारस्तन्मोक्षाय च घटत इति गम्यम् । तस्मादेनं विनय इति विदः सर्वविदो वदन्ति । किम्भूताः ? विलीनसंसारा: समुच्छिन्नभवास्तस्मादेव विनयसेवनाद् यतो युक्तियुक्तं विनयस्य प्रागुक्तं निरुक्तम् ।।२१४ ।। विनयस्यैव भेदप्रभेदान् दर्शयति -
लोइयलोउत्तरभेयओ दुहा तत्थ लोइओ विणओ ।
लोओवयारभयअत्थकामरूवेहिं चउभेओ ।।२१५।। स चायं विनय: सामान्येन लौकिकलोकोत्तरभेदाद् द्विधा । तत्रापि लौकिको विनयो लोकोपचार-भय-अर्थ-कामरूपैश्चतुर्भिर्भेदैर्भवति ।।२१५ ।। लोकोपचारादीनेव लौकिकविनयभेदान् प्रतिपदं व्याचष्टे -
तदुचियअब्भुट्ठाणं अंजलिबंधो य आसणपयाणं ।
देवातिहीण पूया इय एसो लोइओ विणओ ।।२१६।। इत्येष लौकिकविनयो लोकोपचारलक्षणः प्रथमो भेदः । यत् किम्? यत् तदुचितानां विनयार्हाणां गुर्वादीनां दूरादपि दर्शनेऽभ्युत्थानम् सम्मुखमुत्थानम् । मिथो दृष्टिमिलने चाञ्जलिबन्धः करकमलकुड्मलीकरणं शिरसि निधानं च । समीपोपगमने चासनप्रदानं स्वयं तदुचितसनढौकनम् । उपलक्षणं चैतत् सम्मुखगमनभक्तिवन्दनपर्युपासनानुगमादीनाम् । उक्तं च -
'अभ्युत्थानं तदालोकेऽभियानं च तदागमे ।
शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ।।१।। __ गाथा-२१४ 1. विनीयते - क्षिप्यते अष्टप्रकारं कर्मानेनेति विनयः । - प्रव. सा. गा. २७१ वृत्तौ, धर्म सं. गा. १२५ वृत्तौ ।। विनीयते तेन तस्मिन् वा विनयः । तत्त्वा. स्वो. भा. ९/२३ ।।।
विनयशब्दनिर्भेदप्रदर्शनायाह - विनीयते-क्षिप्यतेऽनेनाष्टप्रकारं कर्मेति विनयः । पचाद्यचि करणसाधनम् । विनीयते चास्मिन् सति ज्ञानावरणादिरजोराशिरिति विनयः । अधिकरणसाधने च । - तत्त्वा. सिद्ध. टीका ९/२३ ।।
गाथा-२१६ 1. अभ्युत्थानं ससम्भ्रममासनत्यागः तदालोके गुरूणामालोकने सति, अभियानमभिमुखं गमनं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org