________________
२८२ हितोपदेशः । गाथा-२१२, २१३ - उत्तमगुणसङ्ग्रहाख्ये द्वितीयमूलद्वारे पञ्चमं विनयप्रतिद्वारम् ।।
इति कनकवतीयं प्राप्य भर्तुः प्रसादादनुपमसुखलक्ष्मीमैहिकीमेकरूपाम् । व्रतनियमसमुत्थां क्लेशचर्यां विनैव, प्रसरदमलभावा ज्ञानमाप्ता शिवं च ।।२८१।। एवं च - दानं यनिर्निदानं यदपि शशिकरश्रेणिलीलं च शीलम्, यदुर्वारान्तरारिव्रजविजयविधौ बद्धकक्षं तपश्च । यद्यान्यनित्यनैमित्तिकविषयविभागार्पितं कृत्यजातम् । निर्व्याजं सेव्यमानं भजति सफलतां भावनाभावितं तत् ।।२८२।। किञ्च - वित्तायत्तो दानधर्मोऽथ शीलं चित्तायत्तं क्लेशसाध्यं तपश्च । आयासायत्तं च नित्यादिकृत्यं स्वायत्तोऽयं भावधर्मस्तु रम्यः ।।२८३।।
इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दसूरिविरचिते हितोपदेशामृतविवरणान्तर्वतिनि उत्तमगुणसङ्ग्रहाख्ये द्वितीये मूलद्वारे चतुर्थं भावना
प्रतिद्वारं समाप्तमिति भद्रम् ।।२११।। श्रीः ।। साम्प्रतं पूर्वव्याख्यातं दानादिद्वारचतुष्टयमेव निगमयन्नाह -
एसो चउप्पयारो धम्मो दाणाइओ भुवणसारो ।
आराहिओ निरंभइ, दाराणि चउन्ह वि गईण ।।२१२।। एष पूर्वोदितस्वरूपो दानादिधर्मश्चतुष्प्रकारोऽपि सम्यगाराधितश्चतसृणामपि गतीनां द्वाराणि निरुणद्धि । 'भवोच्छित्तिनिमित्तत्वाद् दानादिधर्माराधनस्य', अत एवायं भुवनसार इति ।।२१२।। एवं दानादिद्वाराणि निगमय्योत्तरं विनयद्वारं प्रस्तावयन्नाह -
कह पुण इमो मुणिजइ ? गुरूवएसेण, ते कहं दिति ? ।
विणएण, सेवणिजो, तम्हा एयत्थिणा विणओ ।।२१३।। असौ तु दानादिधर्मः कथं ज्ञायत ? इत्याह - 'गुरूवएसेणं' गुरूणां धर्माचार्याणामुपदेशेन । अथ कथं ते गुरवस्तदुपदेशं ददति ? तदाह - विनयेन वक्ष्यमाणलक्षणेन सम्यगाराधिताः । एवं च सति एतदर्थिना धर्माभिकाक्षिणा नियतं विनयः सेवनीयो भजनीय इति ।।२१३।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org