________________
ग्रन्थसंस्तवः ।।
गृहस्थावस्थायां स्थिता जगद्गुरवस्तीर्थकृतः अपि मात्रापित्रोरुचितमाचरन्ति । उचिताचरणेन सुप्रतिष्ठप्रतिष्ठः पुरुषः देशादिविरुद्धत्यागत एव लब्धयशः स्थिरीकरोति ।
(८) देशादिविरुद्धपरिहारगुणः - देश-काल-नृप-लोक-धर्मविरुद्धमाचरणं संरोधयन् नरो धर्म शर्म च लभते । यत्र कुत्राऽपि देशे शिष्टजनैरनाचीर्णं तद् देशविरुद्धम्, न च तेषां देशविषयं तिरस्कारं कुर्यात् । यस्मिन् कस्मिन्नपि काले शिष्टैर्यद् अनाचीर्णं तत् कालविरुद्धम्, राजविरुद्धमपि मतिमान् पुमानाचरेत्, यतो नरनाथाः सकलसंपत्सनाथा: सकलप्रजाप्रेमधामानश्च सन्ति । यतः क्षितिपतयो चेतस्संतुष्टिभाजो यथा भवन्ति तथा वर्तितव्यम् । यतयोऽपि सानुकूले भूपाले मनःसमाधानमाधाय धर्माराधनं कुर्वतेतराम् । मनुष्यलोके यः पुरुषार्थः शिष्टजनाचीर्णो व्यवहारस्तस्य विरुद्धं लोकविरुद्धम् । लोकतो विप्रतिस्रोतसा जगति निजस्य जिनशासनस्य चापयशः प्रसरति । लोकविरुद्धत्यागपूर्वकं केषामपि दूषणोद्धोषणं न कुर्यात् । जनपूज्यानां नावज्ञामासादयेद् निसर्गत: सुकोमलमतीनामार्जवोपेतानां प्राणिनां धर्मकरणस्य किमपि स्खलनं नोपहसनीयम् । लोकविरुद्धपरिहारतो हार इव जनमनोहारी भवति धर्माराधनपरो जनः ।
देशादिविरुद्धत्यागस्तु धर्मरक्षानिबन्धनम् । धर्मस्य सद्गतिप्रापणप्रवणस्य, दुर्गतिपतननिरोधबद्धकक्षस्य यद् विरुद्धं तद् धर्मविरुद्धम् । यथाऽऽश्रवेषु आसक्ति: धर्मकर्मणि अनासक्तिः, मुनिजनविद्वेषणम्, चैत्यद्रव्यपरिभोगः, पारमेश्वरप्रवचनस्याऽपभ्राजना, परतीर्थिप्ररूपिते मार्गे रतिः, गुरुस्वामिसाधर्मिकादीनां वञ्चनम्, परेषां समृद्धि प्रति मात्सर्यं लोभतः संक्षुब्धचित्तत्वमित्यादि धर्मविरुद्धं सुतरां परिहर्तव्यम् । एकमपि विरुद्धं त्यजन् सुधीः सुखं च शुभं च समावहति किं पुनः पञ्चानां विरुद्धानां त्यागतः ।
(९) आत्मोत्कर्षवर्जनगुण: - दानादिधर्ममात्मोत्कर्षः क्षिणोति, अतो विनयप्रवणो धर्मविचक्षणो चतुरचेता: आत्मोत्कर्षं परित्यजेत् । आत्मोत्कर्षस्तु विनयापकर्षणकरो दुर्गतिपथपाथेयः । आत्मोत्कर्षण असतः स्वगुणान् प्रकटयतो जनान् मित्राणि हसन्ति, बान्धवा निन्दन्ति, गुरुजना उपेक्षन्ते, जननीजनकश्चापि जघन्यत्वमादधाति । आत्मोत्कर्षेण क्रमशो विनयविनाशः, अत: अहङ्काराविभावः, अतो ज्ञानादिशून्यत्वमतो लोकेषु अधिकत्वं, अतस्सम्पदां च विमर्दः, अतस्सर्वत्र चापमनिका, अतः पुरुषार्थपरित्यागः, अतो बहुविधोपाधिसन्निधानम्, अतश्चेतसि शोकानलज्वलनम्, अत: शून्यमनस्कत्वम्, अतः सर्वथा विनाशश्च भवति, एवमुत्तरोत्तरदोषानलक्लेशकलुषित आत्मोत्कर्षः कर्षणीयः ।
स्वश्लाघापरायणोऽपि परनिन्दकस्तु न स्यादेव, वस्तुतस्तु आत्मस्तुतिविस्तरणमेव परापगुणप्रकटनं परिकीतितं धीधनैर्महाजनैः । परनिन्दा तु कुगतिमूलबीजम् । निजपरकषायकलुषनिबन्धनम्, अतो धन्यैर्न विधीयते आत्मोत्कर्षः परापकर्षश्च । किन्तु ते प्रशमामृतसारनिर्वापितमनसो भूत्वा इहभवं परभवं प्रभूतनिराबाधसुखानुभूतिमयं कुर्वन्ति ।
(१०) कृतघ्नत्ववर्जनगुणः - धर्मसर्वकषगर्ववर्जितो गुणरञ्जितप्रकृतिकः प्रकृत्या परोपकारपरायणो
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org