________________
ग्रन्थसंस्तवः ।।
समाचरणीयं पितृ-मातृ-सहोदर-प्रणयिनी-अपत्य-स्वजन-गुरुजन-नागर-परतीर्थिकविषयकम् ।
जननी-जनकयोः मनसा वचसा वपुषा शरीरशुश्रूषा आज्ञापालनमित्यादिकं मातापितृसम्बन्धि औचित्यम्। सहोदरं प्रति औचित्यं तु तमात्मसमानं मत्वा गृहादिकार्येषु कनिष्ठस्यापि बहुमानं, ज्येष्ठं प्रति पितृवत् सन्मानम् ।
प्रणयिनी प्रत्यौचित्यं चैतद् - यत् प्रियालापपूर्वकं गृहादिकार्ये प्रवर्तनम्, कुतश्चिदपि हेतोः कुपितायाः कोपापनयनं तन्मनोरथपूरणेन रोगादिषु चानुप्रेक्षा, धर्मकार्येषु च साहाय्यम्, इत्यादिकम् ।।
तनयं च कलासु कुशलं कारयेत्, गुरु-देव-धर्म-साधर्मिकाणां च परिचयं विरचयेत्, समुचितसमये परिणयनं गृहभारसमर्पणम्, प्रत्यक्षे श्लाघाया अकरणम्, व्यसने समापतिते सति तस्योद्धरणम्, इति पुत्रं प्रति पितुरौचित्यम् ।
स्वस्य स्वजनानां च शुभाशुभेषु प्रसङ्गेषु सम्मीलनं सत्कारकरणं दुःखदूरीकरणं च । रोगातङ्केषु अतिशयदुरन्तकरणम्, पृष्ठतो निन्दां न कुर्यात् । निरर्थकं वाग्वादं न विदध्यात् । तदभावे तद्गृहे न गच्छेत्। अर्थस्य च सम्बन्धं त्यजेत् । एतत् स्वजनविषयमौचित्यम् ।
धर्ममार्गोपदेष्टारं गुरुजनं प्रत्यौचित्यं यत् त्रिसन्ध्यं वन्दनं, तेषामुपदेशं निश्रां श्रद्धानसंस्थानं च कृत्वाऽऽवश्यकप्रमुखाणां सत्कृत्यानां करणम्, उपदेशानां च श्रवणम्, आज्ञायाश्च बहुमानम्, अवर्णवादस्यापनोदनम्, स्तुतिवादस्याऽऽविष्करणम्, छद्मस्थावस्थायाः सद्भावत्वात् तेषां छिद्राणामनवलोकनम् । प्रमादस्खलितेषु तेष्वेकान्ते प्रेरणम्, यद् हे ! भगवन् ! किमिदमुचितं भवेत् सञ्चारित्रपात्रभूतानामत्रभवतां भवताम् ? इदं यद् भवताऽऽचरितं तद् यदि विभिन्नया अनया प्रथया कृतं स्यात् तीतीव समुचिततरं स्यात्, इत्यादि सविनयवचनप्रपञ्चेन गुरुं सन्मार्गे स्थापयेत् । यथा जिनप्रवचनस्याऽऽपभ्राजना न स्यात् ।
निजनगरे निवसतां स्वसमानवृत्तीनां समानमनसां समानसुखदुःखानां आपद्विपत्सु सहावस्थानं तन्नागरिकौचित्यम् । स्वेषां परेषां च परस्परं विश्वासकृते गन्तव्यं सर्वैः मीलित्वा नृपादिकं सङ्गच्छेत् । परपैशुन्यं परमन्त्रभेदो न कर्तव्यः । विवादेऽपि जाते माध्यस्थ्यमादाय समाधानं साधनीयम् । न च नयमार्गो विधूनयितव्यः । स्वजनसम्बन्धिबान्धवज्ञातेयेभ्यो लञ्चासत्कारादिप्रबन्ध निरपेक्षभावः, इत्यादिकं नागरौचित्यम् ।
सौगतादीनां प्रत्युचितमाचरणं यत् ते केऽपि भिक्षार्थमुपस्थितास्स्युस्तेषामुचितं कर्तव्यम् । राज्ञा महितानां तु तेषां विशेषत उचितं कर्तव्यम् । यद्यपि मनसि भक्तिः गुणपक्षपातो न स्यात्, तथापि गृहिणामयं धर्मो यद् गृहागतेषु उचितं कर्तव्यम् ।
एवं पितृप्रभृतीनां समुचितं कुर्वन्तः श्राद्धा अर्हद्धर्मस्य योग्या भवन्ति । तस्माद् भव्यैर्धर्माणिभिरादौ उचिताचरणेषु निपुणैर्भाव्यम् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org