SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ग्रन्थसंस्तवः ।। (५) विनयगुणः - विनयाऽऽराधित एव गुरुः चतुष्प्रकारं संसारसारं धर्मं प्रदिशति तस्माद्धर्ममाप्तुकामा विनयं कुरुध्वं । येनाष्टविधं कर्म विनीयते दूरीक्रियते स विनयः । लौकिक-लोकोत्तरभेदभिन्ने विनये गुर्वादीनामुपचारादि विनयः सकलसंपन्निधानं प्रोक्तः, किन्तु लोकोत्तरे जिनप्रणीते प्रवचने लोकोत्तर एव विनयः कर्तव्यतामासादयति भव्यानाम् । लोकोत्तरो विनयः पञ्चधा - (१) ज्ञानविनयः, (२) दर्शनविनयः, (३) चरणविनयः, (४) तपोविनयः, (५) उपचारविनयश्च । सम्यग्ज्ञानसहितं यद् दशविधचक्रवालसामाचार्या आसेवनं स ज्ञानविनयः । आप्तप्ररूपितजीवादिपदार्थानां श्रद्धानं स दर्शनविनयः । सर्वज्ञोपदिष्टानुसारं चारित्रे तपसि च स्वनिष्ठाशक्तिप्रतिष्ठमनुष्ठानं तौ चरणविनयतपोविनयौ च । आचार्यादिमुनिवरेषु सुप्रशस्तमनोवाक्कायानां धारणमाशातनावर्जनं बहुमानाधानं च उपचारविनयः प्रथितः । श्रेणिकनृपनन्दनेन अभयकुमारेण विवेकतुलाधिरूढ्या निजधिया, श्रेणिकशङ्कितशीलां चेलणां मातरं तथाऽऽज्ञाप्रधानं पितरं प्रति विनयमाचरता अन्तःपुरदहनकृत्रिमवृतान्तख्यापनतो जननी रक्षिता आज्ञा च जनकस्य न खण्डिता । इत्थं गुरुं प्रति निजविनयं प्रदर्शितवान् । एवं पूज्येषु प्रथितो विनयो विनेयानां कीर्ति विकिरति, विश्वे विश्वासं च जनयति, कामतापं च शमयति, अन्तःप्रीतिं सृजति, उदितामापदं मनाति । किं बहुना विनयाद् विश्वं वशंवदं भवति । (६) परोपकारगुणः - सुविनीतजनो जनमनोऽभिनन्दनविधायी भवति । स यदि परोपकारी स्यात् तर्हि सुवर्णे सुगन्धसंयोगो भवति । गगने शशिकर इव सामर्थ्यवत: पुरुषस्य परोपकारिता यशश्च भुवने प्रसरति। यः परस्मिन्नुपकरोति, स तत्त्वतस्तु स्वस्मिन्नेव उपकरोति । अयमुपकारधर्मो द्रव्यतो भावतश्च द्विभेदः, स च जिनभगवद्भिस्तीर्थकृद्भिः सांवत्सरिकदानरूपेण द्रव्यतो धर्मोपदेशदानरूपेण भावतः समाचरित उपदिष्टश्च । अचेतना अपि सरिताविटपिप्रभृतयो यदि परोपकारं कुर्वन्ति तर्हि सचेतनैरस्मादृशैः परोपकारो नितरां कर्तव्य एव । अपरनामा “वङ्कचूलः" पुष्पचूल: राजपुत्रः केवलं परोपकारबुद्ध्यैव चातुर्मास्यां मुनिभ्यो वसतिदानं करोति, तस्य सुफलत्वं सर्वं प्रसिद्धमेव । (७) उचिताचरणगुणः - उचिताचरणं परोपकारपरस्य नरस्य दानवृत्तिं सफलयति । औचित्यं प्रपञ्चयन् जनः समुचितं दानादिकं कुर्वन् दानादिकधर्मस्य प्रतिष्ठां प्रख्यापयति । औचित्या चैतच्चैतन्यवता Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy