________________
ग्रन्थसंस्तवः ।।
निर्दह्य जात्यजाम्बुनद इव तेजसा सा समुद्भूतकेवलालोकप्रकाशेन विराजमाना आयुषोऽन्ते मोक्षमाप ।
चरमजिनवरस्य वर्द्धमानतीर्थपतेः प्रथमः श्रमणोपासक आनन्द एकादशश्राद्धप्रतिमाः समाराध्य अवधिज्ञानं प्राप्नोत् । श्राद्धधर्मं च विधिनाऽऽराध्य मासिकीं संलेखनां समाधिना विधाय कालं कृत्वा सौधर्मकल्पे उत्तरपूर्वस्मिन्नरुणाभिधाने विमाने देवभवमियाय ।
२९
श्री ऋषभप्रभोः सुंदरी इति सौंदर्यातिशायिनी, अद्वितीयलावण्यवती द्वितीया दुहिताऽऽसीत्, सा च प्रविव्रजिषुरपि भरतेनाऽननुज्ञाता षष्ठिसहस्राणि संवत्सराणि यावदाचाम्लपतोविधानमाचरितवती, षट्खण्डभरतक्षेत्रविजयादनन्तरं तस्याः प्रकर्षं प्रव्रज्याध्यवसायं ज्ञात्वा भरतेन संयमग्रहणाय समनुज्ञाता सती प्रभोः पार्श्वे संयमं स्वीकृत्य दुष्करतपश्चरणमाचर्य केवलज्ञानं लब्ध्वा अव्ययं पदमवाप ।
1
(४) भावगुणः- भावो हि प्रधानो धर्मः दानादिषु धर्मेषु । भावेनैव अन्यधर्माः शोभन्ते । लवणेनेव रसवती, ज्योतिषैव मणिः, कलशेनेव प्रासादः, नयनेनेव वदनं, लावण्येनेव तारुण्यम् ।
शुभभावप्रसरपर आत्मा क्षणार्द्धेन तत्कर्म क्षीणोति यत् जन्मकोटिघटितेन तीव्रतपसाऽपि न क्षीयते । सर्वेषु धर्मव्यापारेषु शुभमन : व्यापार एव आत्महितसंसाधनप्रवणः, अशुभस्तु स एव नितरां अधोगतिगमननिबन्धनम्, यथा दृष्टं राजर्षिप्रसन्नचन्द्रे ।
आयोधनावनो द्वन्द्वयुद्धेन चक्रवर्तिनं भरतं विजित्यापि प्रशमरसपूरप्लावितचेताः संयतो भूत्वा बाहुबलिः संवत्सरं यावदेकस्थानस्थितः, किन्तु ज्ञानं न लेभे । वर्षान्ते दीप्रदीधितिर्दिनपतिरिव जिनपतिः ब्राह्मसुन्दरीभ्यां कराभ्यामिव शतदलतामरसमिव शमरससरसं बाहुबलिनं संयमिनं बोधयामास । स च महामना महामुनिः “वीरा मोरा गठ थडी उतरो " " न हु हत्थिविलग्गाणं उपज्जइ केवलन्नाणं" इति भगिनीवचनमाकर्ण्य निजलघुबान्धववन्दनासमुत्सुकः प्रभोः पार्श्वे प्रस्थातुं यावत् पादमुचिक्षेप तावदेव केवलज्ञानं समुत्पन्नमित्येतदपि विस्फूर्जितभावधर्मस्याऽऽस्यानुगुण्यम् ।
वर्धमानप्रभोः प्रथमाया आर्याया चन्दनबालाया विनयवती शिष्या मृगावती साध्वी भावधर्मत एव केवलिनी भूता । तस्या अपि चरित्रं पवित्रं श्रुतेषु विश्रुतमेव ।
इलापुत्राभिधानश्च श्रेष्ठिपुत्रो नटनन्दनानुरागतो नटीभूतोऽपि निरीहनिर्ग्रन्थनिषेधवचननिर्विकारनयननिभालनेन सञ्जातप्रवृद्धशुभभावतो घनघातीनि कर्माणि निहन्य समुज्ज्वलकेवलमाससाद । भावेनैव भवः पराभूयते यथा वसुदेववल्लभा कनकवती सती एकदा श्रीमन्नेमिनाथस्य समवसरणे गतवती प्रभोरन्तिके भावनाप्रभावख्यापिकां देशनां श्रुत्वा श्रद्धाबन्धुरा सा देशविरतिधर्मं लब्ध्वा व्रतनियमसमुत्थां क्लेशचर्यां विनैव विशिष्टतरभावप्रकर्षमाधाय चेतसि ध्यानस्य विशुद्धया क्षपकश्रेणिमारुह्य घातिचतुष्कस्य घातं विधाय केवलं प्राप्ता ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org