________________
ग्रन्थसंस्तवः ।।
अनुकम्पादानस्यानुभावतः सोमदत्तश्रेष्ठी इहभव एव नवं नवं सुखं समृद्धिं च प्राप्नोत् । श्रीआर्यरक्षितश्रीवज्रस्वामिनी श्रुतग्रहण-वितरणकुशलतया जिनशासने सुप्रसिद्धौ ।
सुपात्रदाने साधुषु बाहुसाधुः, आर्यासु पुष्पचूला आर्या, श्राद्धेषु मूलदेवः श्राद्धीषु च चन्दनबाला इति दृष्टान्तचतुष्कं सुप्रसिद्धम् । ते सर्वे सुपात्रदानं दत्वाऽऽत्महितं साधयामासुः । अपरं च साधु-साध्वीश्रावक-श्राविका-जिनागम-जिनागमलेखन-जिनवचनश्रवण-जिनायतननिर्माण-पुनरुद्धरणेत्यादिषु विहितं वितरणप्रवणं सन्मार्गावतरणं भवति । __ यथा - जिनवचनश्रवणेन रौहिणेयः, जीर्णदेवालयोद्धरणेन वग्गुरश्रेष्ठी, जिनबिम्बविधापनेन कुमारनन्दीसुवर्णकारश्च सुगतिभाग भूतः ।
(२) शीलगुणः - सदानमदकल इव दानगुणसङ्गतनरः शीलेन शोभते । शीलस्य माहात्म्यं यद् मदनपराभवः । शीलं मूलमिव सुखतरो: शुभतरोश्च, शीलं नालमिव ज्ञाननलिनस्य, शीलं शूलमिव मन्मथस्य, शीलं शाल इव व्रतपूरस्य । शीलं चैतद् पालयितुमतीव दुष्करम् । तत्तु अपारपारावारस्य तरणं बाहुभ्याम्, असिधारासु चङ्क्रमणं पादाभ्याम् ।
शीलेन स्मरशासनं सर्वसत्त्वहितनाशनं प्रतिरोधमापद्यते । शीलस्य चास्य साधनयाऽऽराधनया पालनया परिपालनया च श्रूयन्ते स्थूलभद्रः, शीलसनाथशिरोमणिः परिकीर्त्यते च विजितरतिपतिः राजीमती आर्यवर्या, संश्लोक्यते श्रेष्ठिश्रेष्ठः सुदर्शन:, श्रमणोपासकावतंसः, परिश्लाघ्यते अननुगुणश्लाघ्या सती सुभद्रा श्रमणोपासिकामतल्लिका ।
(३) तपोगुणः - तपोधर्मानुभावतः निजीर्यन्ते कर्माण्यात्मनः । सर्वदैव शिवसुखाभिलाषिणो भव्यसत्त्वास्तपस्यन्ति । येन कर्माणि तप्यन्ते तत्तपः बाह्यामाभ्यन्तरं चेति द्विविधम् । तच्च क्रमशः षोढा ।
तथा हि - (१) अनशनम् (२) ऊनोदरता, (३) वृत्तिसक्षेपणं, (४) रसत्यागः, (५) कायक्लेशः, (६) संलीनता । तदिदं षट्प्रकारं बाह्यं तपः ।
(१) प्रायश्चित्तं, (२) विनयः, (३) वैयावृत्त्यं, (४) स्वाध्यायः, (५) ध्यानं, (६) व्युत्सर्गः । तदिदं षट्प्रकारमाभ्यन्तरं तपः ।
दानादयस्तु कर्ममर्मविधः, किन्तु तपः प्रकर्षावस्थापन्नं निकाचितमपि कर्म विनाशयति । तपसा परत्राऽमुत्र च प्रभुत्वं यशः कीर्तिश्च प्राप्यते । विविधाश्च आमर्शविफुटखेलजल्लप्रमुखा लब्धयः प्रादुर्भवन्ति । तपसोऽस्यानुभावतो बलभद्रमुनिरात्महितं परहितानुगुणं साधितवान् । नाभेयनन्दना ब्राह्मी प्रभोः पादपद्मान्ते पावनी पारमेश्वरी प्रव्रज्यां प्रतिपद्य सोपधानानि श्रमणीसमुचितानि श्रुतानि समधीय विविधानि निकृष्टानि उपवासतपांसि कृतवती, तेषां पारणके च विकृतिर्नादत्तवती, आचाम्लैः पारणकं विहितवती, एतेन तीव्रतपसा निखिलानि निबिडतराणि कर्माणि
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org