________________
ग्रन्थसंस्तवः ।।
वेदनाविवशानां दशां दृष्ट्वा अनु पश्चात् यत्र चित्तं कम्पते सा अनुकम्पा ।
अभयदानं प्राणवतां प्राणरक्षणं, अनुकम्पादानं तु रक्षितप्राणेषु जीवत्सु तेषां विविधदुःखदूरीकरणोपायस्य करणम् ।
अभयदानेन सत्त्वेषु सत्त्वरक्षणम्, अनुकम्पादानेन च प्राणिषु जीवत्वसम्बद्धानां चैतन्यादीनां गुणानां संरक्षणम् । अत अनुकम्पया स्वदुःखदूरीकरणेन आवर्जिताः सन्तः दुःखार्ता देहिनोऽनुकम्पातत्परं परं प्रति सद्भावनाभाजो भवन्ति, अतः परम्परातश्च दुःखार्तेषु तेषां योग्यतासारित्वेन चित्तार्द्रभावत्वं गुणाङ्कुरोद्भावनयोग्यत्वं क्रमा शुद्धचैतन्यं प्रति लक्ष्यबुद्धिरुपजायते ।
जीवोऽज्ञानतमोपूरपूरितो हेयाहेयमवहेलयन् यद् यत् कार्यं करोति, तत् तत् तस्य विविधां आधिव्याधिमुपाधिं समारचयति । तेन चायं समापतति नानाप्रकारेषु सन्तापेषु । येन किमपि दुःखं नोद्भवति तत् तद् विधेयमित्यतो ज्ञानमेव शरणार्हम् संजायते जीवस्य । अतः परोपकारपरायणाः परमपुरुषाः प्राणिनां दुःखनाशाय हिताहित - हेयोपादेय कर्तव्याकर्तव्यादीनां वर्त्म सम्यगुपदिशन्ति, तज्ज्ञात्वा च ज्ञानवान् जीवस्तदनुसारितया जीवनं यापयति, परेषां च हितमाचरति, न केषाञ्चित् संतापकृद् भवति, तस्य जीवनं शारदशशिविशारदं सकलसत्त्वसुखदं भवति । सर्वमेतद् ज्ञानस्य ज्ञानदानस्य विस्फूर्जितम् ।
२७
सभयेषु अभयविधायी, दुःखापविनायी सम्यक्तया च ज्ञानमार्गानुयायी यत्र यत्रऽऽराधनाया: प्रकर्षं पश्यति यथा कुत्रचिद् विप्रकृष्टं तपोविधानम्, कुत्रचित् शीलाऽऽचारसमाधानम्, कुत्रचित् परमेश्वरपादपङ्कजयोः प्रणिधानम्, कुत्रचिद् गुरुजनानामुपाराधनम्, तत्र तत्राऽऽराधके साधर्मिके चतुर्विधसङ्घस्वरूपे निजमनः प्रसादपूर्विकया तेषां भक्तयां शुश्रूषायां च वैयावृत्त्यकृत्येऽहमहमिकया संस्वजते । एतत्तु समाराधिताराध्येषु समाहितेषु बहुमानपूर्वकं भक्तिदानमपूर्वापूर्वपरिणामप्रापणप्रवरम् । ये क्रूरचित्ताः सत्त्वा निःसत्त्वेषु प्राणिषु हिंसामाचरन्ति ते चतुरशीतिर्लक्षयोनिषु भवेषु भूरितरं दुःखमनुभवन्ति ।
यथा - मृगापुत्रकुमारो मांसपिण्डीभूतः सन् प्रतिपलं पलालपूतिमयं शरीरमुद्वहति स्म, सततं निरन्तरसुखेतरवेदनां संवेदयति स्म चेति ।
अहिंसया चाऽऽयत्यां निरन्तरायं सुषमाधायित्वम्, चित्ते करुणामृतपरिप्लावितत्वं, परत्राऽमुत्र कुशलानुबन्धिकुशलं सुखानुबन्धिसुखं पुण्यानुबन्धिपुण्यं धर्मानुबन्धिधर्मश्च लभते ।
यथा जीवदयां प्रतिपालयन् पुलिन्दः परस्मिन् जन्मनि नरकेसरिनृपो भूत्वा परिभुज्य विविधानि सुखानि, संप्राप्य च सद्गुरुसंयोगं, श्रुत्वा च धर्मोपदेशं सम्यगाराध्य च श्रावकधर्मं प्रतिपद्य च निरवद्यां प्रव्रज्यां, पर्यन्ते माससंलेखनां च कृत्वा स धन्यो नरकेसरिमहर्षिः नवमग्रैवेयके देवभुवमाप ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org