SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २६ ग्रन्थसंस्तवः ॥ ते चामी - (१) सर्वज्ञप्रणीतसिद्धान्तेषु स्थैर्यम् । (२) स्वात्मनि समाविर्भूतवादप्रभृतिभिः शक्तिभिः पारमेश्वरप्रवचनस्य प्रभावना । (३) सुप्रशस्तानां तीर्थानां चतुर्विधसङ्घस्वरूपतीर्थस्य च आसेवना। (४) सूत्रेषु सूत्रार्थेषु च कौशल्यम् । (५) जिनप्रवचनेऽत्यन्तो भक्तिभृञ्चित्तानुरागः, तदनुकूलतया च चतुर्विधस्यापि सङ्घस्य यथोचितं वैयावृत्त्यकरणम् । अयमेव भक्तिरागो वदने तिलकमिव सम्यक्त्वविभूषणगणे सारभूतः । यतः सम्यक्त्वधरमेव नरवरं वरयति तीर्थकरश्रीः । यथा - श्रीसम्भवतीर्थनाथेन पूर्वस्मिन् तृतीयभवे परमपुरुषप्रवचने प्रबलतरभक्तिरागेन तीर्थकरत्वं समुपार्जितम् । ।। उत्तमगुणसङ्ग्रहस्य निरूपणम् ।। अस्मिन्नपारसंसारपारावारे निमज्जतामसुमतां राधावेधदुराराधं समाराधितं सम्यक्त्वं सुमहता प्रयत्नेन मूलमिव आलवालेन, मणिरत्नमिव कनककटकेन, संरक्षणीयम् । सविशेषं तस्य स्थिरीकरणाय प्रयासः कर्तव्यः । अत एव सम्यक्त्वप्राप्त्यनन्तरं तस्य स्थैर्यार्थं गुणानां सङ्ग्रहः सुतरां कर्तव्योः । ते च गुणा दानादयो नरमुत्तरोत्तरं प्रवरां पदवीमारोपयन्ति । अत एव दानादयो गुणा उत्तमा महिता महनीयमनीषिभिः, तैर्गुणैरेव यशो दिशः प्रकाशयति गुणिनाम्ना । उत्तमगुणा एव वाञ्छितफलेषु कल्पतरवन्ति । ततो गुणवान् जनोमण्डलाधिपति-त्रिखण्डाधिपति-षट्खण्डाधिपति-त्रिदशाधिपति-त्रिभुवनाधिपतिसाम्राज्येन गौरवभाजनं भवति । तस्माद् भो भो भव्याः ! श्रुणुत वचनमिदं यदि भवन्तः सम्यक्त्वं समूलरक्षितुकामाः, तर्हि दानादीन् उत्तमान् गुणान् एव भजध्वम् । ते च गुणाः अमी - (१) दानं, (२) शीलं, (३) तपः, (४) भावः, (५) विनयः, (६) परोपकारः, (७) उचिताचरणं, (८) देशादिविरुद्धपरिहारः, (९) आत्मोत्कर्षवर्जनम्, (१०) कृतघ्नत्ववर्जनम्, (११) अभिनिवेशवर्जनम् । एष गुणनिवहः सम्यक्त्वस्य स्थैर्यं करोति । (१) दानगुण: - समुचिताचारेण यदन्येभ्यो वितरणं, तेन स्वस्मिन् परस्मिंश्च शौर्यधैर्यादयो गुणगणा उद्दीपका भवन्ति । येन प्राणिनो दीदांस्यते, सरलीभवन्ति, आवर्जिता भवन्ति तद् दानम् इति व्युत्पत्त्या येन दत्तेन आदातारो दातुः सन्मुखं भवन्ति तद् दानम् । तञ्च दानं चतुर्धा प्रोक्तम्, अभय-चक्षु-मार्ग-शरण-बोधिदातृभिरर्हद्भिर्भगवद्भिः । तद्यथा - (१) अभयदानं, (२) अनुकम्पादानं, (३) ज्ञानदानं, (४) भक्तिदानं च । प्रियजीवितानां प्राणिनां मरणमेव महद्भयम्, अभयदानं विरतिधर्माराधनेन प्राणिनामभयं दापयति । अत एव दानेषु अभयदानं प्रथम श्रेष्ठतमम् । ___Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy