________________
ग्रन्थसंस्तवः ।।
ग्रन्थकारमहर्षिस्तदुपदिशति यथा भो भव्याः ! मिथ्यात्वमुन्मूल्य प्रकटितजिनोक्ततत्त्वं सम्यक्त्वं
भजध्वम् ।
किदृशमेतत् सम्यक्त्वम् ? सर्वज्ञोपज्ञेषु तत्त्वेषु श्रद्धानस्वरूपम्, धर्मद्रुमस्य मूलम्, सुगतिनगरद्वारम्, संसारसागरे यानपात्रम् । येन सम्यक्त्वसूर्येण अनन्तभवसंक्लृप्तसंक्लिष्टाध्यवसायजनितं महामोहतिमिरं दूरीभवति, मोक्षमार्गश्च चेतः पथि प्रादुर्भवति ।
ये ये जनाः सत्तत्त्वरुचिदुर्लभप्रतिष्ठानं सद्दर्शनयानपात्रं समभिरूढा ते तूर्णं तरन्ति विस्तीर्णं महामोहादिमकराकरसंकीर्णं भवार्णवम् । अत एव सम्यग्दर्शनं मोक्षस्य पूर्ववर्ति केवलमेव कारणम् ।
अनर्घ्यविमलमणिकल्पमनल्पसङ्कल्पकल्पनाकल्पं, सुविशुद्धाध्यवसायस्वरूपं निरूपमं सम्यग्दर्शनमेनं शङ्कादयः पञ्च दोषा दर्शनदर्पणधनसमयप्रवणप्रतिमा मलीनयन्ति । पुनः (१) तत्र प्ररूढेन दर्शनमोहनीयकर्मणा जीवो जीवादिषु जिनप्रणीतेषु तत्त्वनिवहेषु सन्देहसन्दोहमावहति । शङ्कयानुविद्धो दुर्विदग्ध जीवोऽलं तोलयति तुल्यतया पारमेश्वरं प्रवचनं परतीर्थिकैः सह प्रद्योतनेन खद्योतमिव । (२) एषः अन्यान्यदर्शनाभिलाषः काङ्क्षा इति प्रकीर्तिता । ( ३ ) एषः सति आप्तत्वे युक्तिमञ्चति वयं न विशिष्टबलकालादिविकला यथावत् समारब्धुं क्षमा, अतः किम् एताः क्रियाः सफलवत्यः सम्भविष्यन्ति किमुत अकाले कृषीवलक्रिया इव निष्फलतामाकलयिष्यन्ति एतत् स्वरूपेण विचिकित्सनेन सर्वत्र सतामसंमतेन सम्यक्त्वं दूषयति । अत एव (४-५) ते अन्योन्यतीर्थिकाणां प्रशंसनं संस्तवश्च तत्त्वमनाद्रियमाणैः समीह्यते अत एव एतान् दोषान् दूरीकर्तुमर्हन्ति॒ि अर्हत्प्रवचनप्रणीतिप्रवणजनाः ।
२५
सम्यक्त्वसंस्पृष्टे चित्ते सत्त्वे ये भावाः प्रादुर्भवन्ति तैः प्रकटितैः स्वस्मिन् परस्मिन् वा सम्यक्त्वमुपादि न वा इति ज्ञायते, ते भावाः सम्यक्त्वस्य लक्षणानि निरुच्यन्ते । तानि पञ्चधा प्रोक्तानि प्रवचनपटुभिः ।
-
यथा (१) मिथ्यातत्त्वे अभिनिवेशोपशमः, येन सापराधे जने कषायस्य उदयो न भवति । (२) परमपदरागः संवेगतया प्रतीतः, तेन चक्रवर्तित्वादिसांसारिकं सुखमपि न संमदयति । (३) तदनन्तरं ज्ञाततत्त्वः प्रकृतिप्रशमवशः मुक्तितत्परोऽपि जीवो यदि धर्मं परिपूर्णं आराद्धुं न शक्नोति तर्हि संसारे संवसति किन्तु आराधनापरेषु परेषु परमप्रमोदमुद्वहति ममत्वं च परित्यजति स निर्वेदानुबद्धः । (४) नानाव्यापत्तिसंतप्तेषु तेषु तेषु प्राणिषु तत्तद्वेदनातत्कारणमिथ्यात्वाद्यपनोदचिकीर्षया द्रव्यभावभेदभिन्ना कारुण्यधारा भूतानुकम्पा । (५) 'तमेव सचं निःशंक जं जिणेहिं पनतं ' इति यस्य मतिदर्पणे सम्यग् आभाति, यश्च जीवाजीवादिषु तत्त्वेषु निःशङ्कतयाऽनुवर्तते तस्य यः शुभपरिणामः स आस्तिक्यम् । शङ्कादिदूषणनिशूदनाद् दृढं सम्यक्त्वं ये विभूषयन्ति ते सद्गुणाः । यथा-मणयः सुवर्णं सुवर्णयन्ति तथा गुणाः सम्यक्त्वभूषणभूताः ।
ते
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org