________________
२४
ग्रन्थसंस्तवः ।।
(१) सुविशुद्धं सम्यक्त्वं, (२) उत्तमगुणानां सङ्ग्रहः, (३-४) विरतिश्च सर्वतो देशत इति एते चत्वारो गुणाधायका गुणाः सन्ति, तदर्थमेव प्रबल: पुरुषार्थः प्रधानतया अङ्गीकर्तव्य इति हितमार्गः । तत्र त्रयोदशगुणालया जीवाः सम्यक्त्वस्याधिकारिणः सन्ति । गुणाश्चैवमवगन्तव्याः । (१) दृढधर्मरागरक्ताः - दुर्गतिप्रपतत्प्राणिगणधारणक्षमे धर्मे दृढो रागः, तेन रक्ताः । (२) अनिन्दितेषु कर्मेषु प्रसक्ताः - वित्तोपार्जनोपायेष्वनिन्दितेषु कर्मसु प्रसक्ताः । (३) व्यसनेषु असंक्षुब्धाः - धनबन्धुविध्वंसादीनि व्यसनानि, तेषु सत्सु संक्षोभं न गताः । (४) कुतीर्थऋद्धिषु अमुग्धाः - साङ्खयशाक्यशैवादयः कुतीर्थिनः, तेषां सम्पत्सु न मुग्धाः । (५) अक्षुद्राः - क्षुद्रप्रकृतिविरहिताः ।।
(६) अकृपणाः - कृपणा हि भृत्यभर्तव्यात्मवञ्चनेनापि धनमेव सञ्चिन्वन्ति, न धर्म, एतद्विलक्षणप्रकृतयस्तूदाराः एवं समुदाराः ।
(७) अदुराराधाः - दुःखेनाराध्यन्ते इति दुराराधाः, एतद्विपरीताः सुखेनैवाभिमुखीकर्तुं शक्याः ।।
(८) अदीनवृत्तयः - दीना-दृश्यमाना श्रूयमाणा वा या वृत्तिः आर्द्रहदयानां जीवानां हृदयेषु दयोत्पादिनी सा दीनवृत्तिः, न विद्यते दीनवृत्तिः येषां ते इति अदीनवृत्तयः ।।
(९) हितमितप्रियभाषिणः - हितं धर्मानुगतं वाक्यम्, मितमर्थवत्प्रयोजनसापेक्षं वाक्यम्, प्रियं श्रवणसुखदममर्मोद्धटनं धर्मानुगतं वाक्यम्, एतत् हितं मितं प्रियं च भाषितुं शीलवन्तः । (१०) सन्तोषपरा: - स्वान्तधृतिपोषः सन्तोषः, तेषु तत्पराः । (११) अमायाविन: - सरलस्वभाववन्तः, अनार्जवं हि मूलबीजमधर्मद्रुमस्य । (१२) धर्मप्रतिकूलाक्षुब्धाः - धर्मप्रतिकूलैः कुल-गण-जनपद-नृपजन-स्वजनैः असंक्षुब्धाः - एतैः अक्षोभ्याः, बाह्याभ्यन्तरप्राणप्रहाणेऽपि निर्ग्रन्थात् प्रवचनात् प्रच्यावयितुं न शक्याः ।
(१३) जनसम्मता: - लोके पितर इव, मातर इव, स्वामिन इव, गुरव इव सर्वकार्येषु प्रच्छनीयाः । एवं च दृढधर्मरागरक्तत्वादिभिर्गुणगणैरुपेताः सम्यक्त्वाधिकारिणः पुरुषा भवन्ति ।
। सम्यक्त्वं दुर्लभम् ।। अनादिनिधने भववने परिभ्रमतामसुमतां सर्वयोनिप्रधानमतीव दुर्लभं दुरापं मनुष्यभवं प्राप्यापि यथावस्थिततत्त्वावबोधविकला मिथ्यात्वसंच्छन्नदर्शना जीवा भववने बम्भ्रमति, हिताहितं च न जानन्ति, अत एव दुःखानुबन्धान् दुःखस्वरूपान् कषायाविरतियोगप्रमादान् समाश्रित्य सुदुःखसम्भारान् सम्प्राप्नुवन्ति ।
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org