________________
।। ग्रन्थसंस्तवः ॥
सर्वे संसारवर्तिनः सत्त्वा दुःखानलसन्तप्ताः निरन्तरं सुखमवाप्तुं सततं प्रयतन्ते । येन सुखमाप्यते, तद् हितमिति मन्वते प्राणिनः, तदर्थञ्च सततं प्रयासमायासमातन्वते कादाचित्कतया कोऽपि देही कदाचित् सुखं लभते, कदाचित् कोऽपि देही दुःखमपि लभते, किन्तु सर्वे सत्त्वाः सर्वथा सर्वदा सर्वत्र सुखमेव सम्प्राप्नुयुः तत्तु संसारे न निश्चितम् । अत एव येन मीमांसितेन येन ज्ञातेन येनाऽऽचरितेन च सार्वत्रिकं संसुखं स्यात् तदेव कार्यं कर्तव्यं, तदेव हितं ज्ञातव्यं प्रज्ञावद्भिः प्राणिभिः ।
अदुःखच्छायं सुषमावहं सुखं तु सम्यक् तत्त्वावगमेन प्राप्यते । यथा तमः प्रणाशाय दीपः सम्पादनीय इति शाला आबालगोपालोऽपि असुमान् दीपमेवाद्रियते, तथैवात्मनः कस्मात् सुखं स्यात्, केन विधिना सुखं स्यात्, किंप्रकारं च तत् सुखं स्यात्, तत्तु जिनदर्शनमन्तरा ज्ञातुं न शक्यम् । जिनदर्शने हि ज्ञानमार्गः सुखसंसाधनप्रणालिः । तमेव ज्ञानमार्गं समाराध्य सत्त्वसमधिकाः सत्त्वाः सुखिनोऽभवन् भवन्ति भविष्यन्ति
च ।
दर्शनेऽत्र जिनप्रज्ञप्ते प्रज्ञावतां प्राणिनां परमोपादेयपारमार्थिकपरमानन्दप्राप्तये प्रचुराः प्रवराः प्रकृष्टार्थाः प्रबन्धाः महाग्रन्थाः प्रकरणग्रन्थाः प्रकाशन्ते ।
तत्रैकतः आचाराङ्गसूत्रम्, उत्तराध्ययनानि, दशवैकालिकसूत्रमित्यादिको जिनागमविस्तारः । अन्यतश्च प्रशमरतिप्रकरणम्, उपदेशमाला, उपमितिभवप्रपञ्चाकथा, समरादित्यकथाप्रभृतयः, शास्त्रग्रन्थाः प्रौढाः । एतेऽनेकधा च आत्महितपथं प्रथन्ते । तेषु प्रस्तुतं हितोपदेशप्रकरणम् एतद् हितेच्छूनामसुमतां सरलतया हितं समादिशति, अमृततया हितं समादिशति, सर्वप्रियतया हितं समादिशति ।
ग्रन्थस्य चास्य भारती हितरतं देहिनं निरन्तरं ज्ञानप्रभारतं करोति ।
अत्र ग्रन्थे आत्मनो हितं कतिधा क्रियेत तस्य पन्थाः प्रकटितः । यथा जीव उत्तमगुणान् कथं सङ्गृह्णीयात् ? को देवः सुदेवः, स च कथं आत्महितं करोति कारयति च ? कश्च गुरुर्यः सम्यक्तया संसारे संसरतः सत्त्वान् शिवं हितमार्गं समाज्ञापयति ? कश्च शिवमार्गे येन जीव आत्यन्तिकं सुखं लभते ? इत्यादिप्रश्नपरम्परासमाधायकतया ग्रन्थोऽयं धर्मधराऽऽधारधुरीण इति निश्चितमेव ।
-
विशेषतस्तु विदुषां शेमुषीप्रसाधनसंसाधनाय वैषयिकं किञ्चिदुच्यते
ग्रन्थारभ्भे प्रारिप्सितार्थनिर्विघ्नपरिसमाप्त्यर्थं जिननमस्कारः । अनन्तजन्तुशिवदायकान् जिनान् नमस्कृत्य भव्यसत्त्वानामजरामरहेतुभूतं हितोपदेशं जिनसमयादुद्धर्तुं प्रतिजानते आगमाननुसृत्य सत्त्वहितमतय आचार्याः । तथा च -
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org