________________
हितोपदेशः । गाथा-२११ - भावधर्मविषये कनकवतीकथानकम् ।।
२७५
अपरस्यां दिशिशशिमुखि ! मुञ्चन्ति महस्विनो महांस्यपरे । तस्यामेवास्य पुनः प्रसरत्यधिकाधिकं तेजः ।।१२२ ।। धारारसज्ञाद्वितयं दधाना प्राणानिलं पीतवती परेषाम् ।। अस्यासिलेखा भुजगी मुमोच शुभ्रं यशः कञ्चकमुन्मदिष्णुः ।।१२३।। किञ्च - यद्वाहव्रजवल्गुवल्गनभवैः प्रेड्डोलधूलीभरे - व्योमप्राङ्गणचुम्बिभिर्व्यवहिते भासामधीशे स्फुटम् । कोकस्त्रीद्विषदङ्गनेव विधुरा कोका इव द्वेषिणो, भेजुभूरिभयाकुला कुलधियो दिक्काननानि क्षणात् ।।१२४ ।। किञ्च - दिग्वर्गेऽस्य यश:पटेन पिहिते देवेन दिग्वाससा, शङ्के स्वव्रतभङ्गभीरुमनसा नक्तन्दिनं स्थीयते । किञ्चान्यत् पुनरुक्तक्लृप्तरजनीरागैरपि श्वेतताम्, बिभ्राणैः सिचयैरमुष्य यशसा पीताम्बरः खिद्यते ।।१२५ ।। आस्तीर्णाजिनरत्ने मृद्वीकामण्डपे युताऽनेन । उपभुक्ष्व सिन्धुतटनीजलशीकरवर्षिणः पवनान् ।।१२६ ।। दानमिवाधमपात्रे वेत्रवती विफलमाकलय्य वचः । मुक्त्वा तदुत्तराशामथोत्तराशापतिं भेजे ।।१२७ ।। कृत्वा तां तदभिमुखीं लक्ष्मीमिव नयवतः प्रतीहारी । ऊचे विचारचतुरे ! कुबेरककुभः पतिः सोऽयम् ।।१२८ ।। धाराधरः सङ्गरमेदिनीषु तथाऽस्य कीलालभरं ववर्ष । यथा ममौ विष्टपमण्डपेऽपि कीर्तिलता न स्फुरदिन्दुपुष्पा ।।१२९ ।। तथा - प्रेङ्क्षत्प्रतापानलदाहशङ्का-समाकुलेव द्विषतां जयश्रीः । रणे भुजच्छायमपायवर्जं शिश्राय चास्य क्षितिनायकस्य ।।१३० ।। किञ्च - दृष्ट्वा वेगजितारुणानुजजवं काम्बोजवाजिव्रजम्, सैन्येऽमुष्य रहस्यमात्मन इवोदीच्या दिशा देशितम् । सप्तैवावनियानमन्थरपदान् स्वस्मिंश्च रथ्यान्थे, पश्यंस्तीक्ष्णकरः क्षणोति नियतं तल्लिप्सयेवोत्तराम् ।।१३१।। घुसृणाङ्गरागसुभगा कोमलरोमाङ्कपटकृतावरणा । रजनीषु हैमनीषु प्रविश भुजाभ्यन्तरममुष्य ।।१३२।। इति चतुरोऽपि दिगीशान् प्रदर्शयामास वेत्रवत्यस्याः । हृदये त्वन्यनिरुद्ध नैकोऽपि पदं दधे तस्याः ।।१३३।। अह चिंतइ कणगवई हंत ! किमेयं न तं अहं सुहयं । पिच्छामि इमेसु नरेसरेसु रिक्खेसु व मयंकं ।।१३४।। ता किं मज्झ अहन्नाइ पत्थणा तेण निप्फला विहिया । अह तेण खेयरेणं वेलविया एवमेवाहं ।।१३५ ।। जइ वा न विसंवाओ नहयरवयणस्स जं 'किलऽज्जेव । सञ्चविओ स मइ चिय संपत्तो धणयदूयत्ते ।।१३६।। इग्याइ वियप्पंती संतप्पंती मणमि सा बाला । दीणाणणा पलोयइ जा किर मंचं कुबेरस्स ।।१३७ ।। रूवदुगेणं पिच्छइ तो तं परिसंकिया तओ चित्ते । होऊणं तयभिमुही सप्पणयं भणिउमारद्धा ।।१३८ ।। हे देव ! कुणसु एगं सहलमिणं पत्थणं पणयसार ! । पसिऊण लहु पयाससुतं मह मणवंछियं दइयं ।।१३९।। पुवभवाणुगएणं पमायलेसेण एस किर कोइ । जो विहिओ मणमोहो पजत्तं इत्तिएणिमिणा ।।१४०।।
गाथा-२११ 1. किल वेज्जेव पाठान्तरः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org