________________
२७४
हितोपदेशः । गाथा-२११ - भावधर्मविषये कनकवतीकथानकम् ।।
इत्थंतरम्मि डिंडीरपिंडपंडुरनियत्थवत्थजुया । परिहियमुत्ताहरणा घणसारविहत्तपत्तलया ।।१०३।। मालइकुसुमपसाहिय-सिरोरुहा चंदकंतताडंका । खीरजलरासिदेवि व्व देहिरी मोहिरी भुवणं ।।१०४।। आरूहिय नरविमाणं ललियवियड्डाहिं सहयरीहिं समं । धाईकरग्गधारिय-दुव्वंकमहूयवरमाला ।।१०५ ।। वजंतपुरस्सरपंचसद्द-रवमुहरसयलदिसिवलया । संपत्ता कणगवई सयंवरा मंडवं अणहं ।।१०६।।
कलापकम् ।। अह ककुहाण चउन्ह वि पहूसु मंचग्गभागलीणेसु । संतेसु बंदिकलयल - कलमंगलतूरघोसेसु ।।१०७।। नीसेसदेसभासाविसेसकुसला पगब्भतरवाणी । उद्दिसिय पुब्वनाहं पडिहारी भणिउमारद्धा ।।१०८।। शशिमुखि ! निमेषविमुखां दृशं विधाय क्षणं निरीक्षस्व । पूर्वस्याः पतिमेनं मीनध्वजविजयिनं वपुषा ।।१०९।। तेजस्वितेजोवधदुर्द्धरस्य प्रकाममस्य स्फुरति प्रतापे । शङ्के विवस्वान् शरणेच्छयेव देवः स्वयं विष्णुपदं जगाम ।।११०।। किञ्च - मन्थारम्भविलोलदुग्धजलधिव्यासप्विीचिच्छटा, वैशद्यछिदुरेण चास्य यशसा व्याप्ते त्रिलोकीतले । देहार्द्ध शिथिलीचकार न भयभ्रान्तेव शम्भोरुमा, कस्तूरीतिलकं विधोरपि दधे तद्वल्लभाङ्कच्छलात् ।।१११।। तथा - अस्य दानसमयप्रवर्तित-स्फीतवारिभरनिर्झरैः समम् । संवदन्ति समरक्षताहितस्त्रैणनेत्रजलकेलिनिम्नगाः ।।११२।। शुभ्राण्यपि शरदभ्रात् कदलीगर्भाणि सुभ्र ! परिधाय । अभ्यर्णमभ्रसरितो भज भामिनि ! शरदि समममुना ।।११३।। नलिनीमिवोडुनाथे श्लथादरांपार्थिवेऽत्रतांवीक्ष्य । अभिदक्षिणक्षितीशं विचक्षणावेत्रवत्यनयत् ।।१४।। अवदञ्चवदननिर्जितसितरुचिबिम्बामिमांप्रतीहारी । दक्षे! दक्षिणककुभः प्रभुमेनंनयनयनविषयम् ।।११५ ।। अस्य प्रतापेन दवाग्निनेव दन्दह्यमानेन विपक्षकक्षम् । भवन्ति चित्रं रिपुमन्दिराणि समुल्लसत्प्रौढतृणाङ्कराणि ।।११६ ।। तथा - दिग्दन्तावलदर्पकेलिदलन-प्रोत्तालकौतूहलाम्, दृष्ट्वा चास्य ककुब्जये गजघटां नीरेशतीरस्थिताम् । एकरावणदानवञ्चनरुषा शङ्के निधावम्भसाम् वज्रं वज्रधरः ससर्ज वडवावैश्वानरव्याजतः ।।११७ ।। किञ्च - तातोद्भवा चेद् भगिनी यदि स्याद्, आत्मप्रसूता तदियं तनूजा । इत्थं विचार्येष विचारचञ्चः, पात्रेषु लक्ष्मी प्रणयीकरोति ।।११८ ।। एलालवङ्गकक्कोल-परिमलाढ्यैः प्रमोदिता पवनैः । कावेरीतीरवने रमस्व रमणं विधायामुम् ।।११९।। अनुनयमिव मानवती वचनं तस्या न सा प्रतीयेष । पटदृष्टरूपलोभात् ससर्ज नयने परं विष्वक् ।।१२।। उद्दिश्य पश्चिमापतिमपश्चिमा वाग्मिनामथ द्वास्था । कान्तिकटाक्षितकनकां कनकवतीमित्यभाषिष्ट ।।१२१।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org