________________
हितोपदेशः । गाथा-२१०, २११ - भावधर्मविषये इलापुत्र-कनकवतीकथानकम् ।।
२६९
अकृत्यमिव मिथ्यात्वं परित्यजत दूरतः । सत्कृत्यमिव सम्यक्त्वं कुरुध्वं सन्निधौ सदा ।।१३।। पाशबन्धवद् दूरं प्रतिबन्धं विमुञ्चत । अतुच्छमूर्छाहेतूंश्च कषायविषपादपान् ।।१३२।। विषयामिषमिश्रां च प्रमादमदिरामिमाम् । पीत्वाहमिव लोकेऽस्मिन् भजध्वं मा विडम्बनाम् ।।१३३।। व्यजिज्ञपदथ मापस्तदा केवलिनं मुदा । भगवन् ! भवता लोके कथं प्राप्ता विडम्बना ।।१३४।। अब्रवीत् सर्वविद् राजन्ननादिनिधने भवे । अनुभूता हि भूयस्यो विषयोत्था विडम्बनाः ।।१३५ ।। अतः कति निवेद्यन्ते किन्तु प्राग्भव एव हि । भोगेच्छामात्रतो मेऽत्र यदजायत तच्छृणु ।।१३६।। वसन्तनगरेऽभूवमहं षट्कर्म्मनिर्मल: । द्विजन्मा विभवी जायाऽप्यनुरूपैव मेऽभवत् ।।१३७।। अवियुक्तस्तया सार्द्धमेकचित्तो दिवानिशम् । अनयं समयं देव्या शिवयेव शिवः सुखम् ।।१३८ ।। भवे च तत्र गोत्रे मे जैनो धर्मः पुराप्यभूत् । निर्वाह्य सुचिरं तं च विरक्तः संसृतेः क्रमात् ।।१३९।। गुरुमूले प्रपन्नोहं व्रतं पल्यपि मे तथा । पतिव्रतानां नारीणां किमन्यदुचितं ननु ।।१४०।। वैराग्यबृंहकान्युयैः प्लतानि प्रशमामृतैः । अधीयानोऽपि शास्त्राणि सन्तप्तोऽहं स्मराग्निना ।।१४१।। स्वप्रियागोचरं प्रेम व्यस्माष व्रतवन्न हि । धर्मपत्न्यपि मे जातिमदं नैव मुमोच सा ।।१४२।। तदनालोच्य मृत्वा च द्वावपि त्रिदिवं गतौ । सोऽहं गुणनिधेः सूनुश्च्युतः स्वर्गादिहाऽभवम् ।।१४३।। जज्ञे जातिमदात्तस्मादेषा शैलूषवेश्मनि । फलन्ति वैपरीत्येन मदस्थानानि यन्नृणाम् ।।१४४।। तेनावधीर्य मर्यादां धर्मस्य च कुलस्य च । अनुरक्तोऽहमेतस्यां प्राग्भवाभ्यासवासितः ।।१४५।। सेयं विडम्बना मेऽत्र भोगेच्छामात्रतोऽप्यभूत् । उपभुक्तास्तु विषया विषादप्यतिदारुणाः ।।१४६।। तस्मादस्मादपस्मारात् स्मरोत्थाछित्तमात्मनः । निर्वर्त्य निर्वृतिमनु प्रयतध्वं सुमेधसः ! ।।१४७।। इति देशनया तस्य राजा वेन्नातटप्रभुः । तद्राज्ञी नटपुत्री च विशुद्धध्यानयोगतः ।।१४८।। यथाख्यातं व्रतं प्राप्य विमलं केवलं तथा । सर्वेऽपि कृतकृत्यास्ते प्रापुः पदमनश्वरम् ।।१४९।। तदेवं सम्प्राप्य प्रथममसमोन्मादमदन-व्यथावस्थां दुस्थां तदनु च विरागोपनिषदम् । स्फुटज्ञानालोकप्रकटभुवनः सोऽथ भगवान्, इलापुत्रः क्षेत्रं शिवमचलमक्षय्यमगमत् ।।१५० ।।२१० ।। पुनः श्रमणोपासिकाज्ञातेन भावनाधर्ममेवोत्कर्षयन्नाह -
मत्ताहियाउ नूणं, मत्ताहीणो पराभवं लहइ ।
पिच्छह कणगवईए, भावेण भवो पराहूओ ।।२११।। नूनं निश्चितमस्मिन् जगति मात्राधिकादसाधारणगुणोपचितान्मात्राहीनो जघन्यगुणः पराभवं लभते । कथमिति चेत् तदाह - हे प्रेक्षावन्तो ! विलोकयत यूयम् । कनकवत्या वसुदेववल्लभाया
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org