________________
हितोपदेशः । गाथा - २१०
भावधर्मविषये इलापुत्रकथानकम् ।।
5
उत्तमाच कुलान्नीचं सङ्क्रान्तेनान्यपुष्टवत् । भक्ष्याभक्ष्यविभागश्च वह्निनेव मयोज्झितः ।। १०७ ।। गुरूणामुपदेशाश्च बधिरेणेव न श्रुताः । अन्धेनेव न दृष्टश्च पुरस्तान्नरकावटः ।।१०८।। सर्वोऽपि विषयासङ्गः कलङ्कस्तावदायतौ । विरुद्धस्त्रीसमुत्थस्तु कलङ्कस्याऽपि चूलिका ।। १०९ ।। धन्यास्त एव लोकेऽस्मिन् शुचयो मुनिपुङ्गवाः । आजन्माऽपि न लिप्ता ये विषयाशुचिकर्द्दमैः । । ११० ।। इति चिन्तयतस्तस्य दृष्टिः क्वापीभ्यवेश्मनि । पपात तत्र दृष्टाश्च तेन जैनेन्द्रसाधवः । । १११ । । दधानाः पञ्च समितीर्गुप्तित्रयपवित्रिताः । शीलाङ्गभारवोढारः प्रौढसंवरकङ्कटाः । । ११२ ।। सन्तापिता न कोपेन मानेनोत्तानिता न तु । नोलुण्ठिताश्च शाठ्येन लोभेन क्षोभिता न च । । ११३ ।। कन्दर्प्पसर्प्पपक्षीन्द्राः प्रमाददववारिदाः । पिण्डं चारित्रयात्रार्थं गृह्णन्तः शुद्धिबन्धुरम् ।।११४ ।। सर्वावयवरम्यासु लावण्यजलसिन्धुषु । तद्दात्रीषु य जैत्रासु भल्लीष्विव मनोभुवः । । ११५ ।। सोपचारं सविनयं देयवस्तुगणं पुरः । ढोकयन्तीषु निर्व्याजं भक्तिव्यक्तिपरास्वलम् ।।११६।। वात्सल्यललितैश्चित्तैः कारुण्यरसवाहिनीम् । दृशं व्यापारयन्तः स्वां स्वसृष्विव सुतास्विव । ।११७ ।। एवंविधांश्च तान् वीक्ष्य सदध्यौपुनरप्यहो । तुल्येऽपि पुंस्त्वेऽमीषां च मम च स्फीतमन्तरम् । ।११८ । । कुलकम् ।। अमी हि यन्महात्मानः पादाग्रलुठितास्वपि । एवंविधासु नारीषु कुलीनास्वपि निस्पृहाः । । ११९ ।। अकुलीनामनायत्तां नटीमनुसरन् पुनः । अभिजातोऽपि जातोऽहमवजातः स्वचेष्टितैः । ।१२० ।। मानुषं जन्म माणिक्यं कर्करेणेव हारितम् । मया भोगाभिलाषेण तुच्छेनातुच्छवैभवम् ।।१२१।। मुहूर्त्तः कोऽपि किं सोऽपि ममायास्यति सम्मुखः । यस्मिन् सङ्गविमुक्तोऽहं भविष्यामि निराश्रवः । । १२२ ।। इति चिन्तयतस्तस्य विश्वेऽपि समताजुषः । स्वावारकक्षयाज्जज्ञे यथाख्यातं व्रतं तदा ।। १२३ ।। विलीनं मोहनीयं च क्षीणा विषयवासना । विशुध्यमानलेश्योऽधादपूर्वकरणे पदम् ।।१२४ ।। यथा वंशाग्रमारूढः पूर्वं द्रव्यादिवाञ्छया । क्षपकश्रेणिमारूढस्तथा परपदेच्छया । । १२५ ।। क्षणात् क्षयमवाप्तेषु युगपद् घातिकर्म्मसु । विमलं केवलज्ञानं स महात्मा समासदत् । । १२६ ।। देवैर्वितीर्णवेषोऽथ वंशादुत्तीर्य संसदि । सुवर्णकमलासीनः प्रारेभे धर्म्मदेशनाम् ।।१२७ ।। यानपात्रमिवाम्भोधौ विधुरे च शरण्यवत् । निधानमिव निःस्वत्वे महाव्याधी सुवैद्यवत् ।।१२८ ।। अन्धकारे यथा दीपः कान्तारे मार्गदेशकः । तृष्णायां शिशिरं वारि क्षुधायां वरभोजनम् । । १२९ । । मानुषत्वं तथैवास्मिन् संसारेऽत्यन्तदुर्लभम् । कथञ्चित् प्राप्य सफलं कुरुध्वं धर्म्मकर्म्मभिः ।। १३० ।।
२६८
5. कङ्कट - कच, बख्तर इति भाषायाम् । सन्नाहो वर्म कङ्कटः । जगरः क्वचं दंशस्तनुत्रं माठ्युरश्छदः अभि. चि. ना. श्लो. ७६६ । कवते कवचं पुंक्लीबलिङ्गः, "कल्यवि" ।। ( उणा - ११४ ) इत्यचः कं वञ्चतीति वा । अभि. चि. ना. श्लो. ७६६ स्वो वृ. ।। सर्वायुधैः कङ्कटभेदिभिश्च - रघु. ७/५ ।।
Jain Education International 2010_02
-
For Private & Personal Use Only
www.jainelibrary.org