________________
हितोपदेशः । गाथा-२१० - भावधर्मविषये इलापुत्रकथानकम् ।।
२६७
स तथेति प्रतिपद्याथ प्रारेभेऽभ्यासमाश्रुतम् । अकृत्यमपि कुर्वन्ति स्त्रीवशाः किमु तादृशम् ।।८२।। प्रौढप्रज्ञाबलान्नाट्ये स तथा प्राप नैपुणम् । रङ्गाचार्यत्वमभजद् यथा रङ्गोपजीविषु ।।८३।।। भणितोऽथ भ्रङ्कुशेन स पुनः श्रेष्ठिनन्दनः । आविष्कुरु कलां स्वस्य पुरः कस्यापि भूपतेः ।।८४।। उपार्जिते त्वया तस्मात् पुष्कलेऽर्थे करोमि ते । विस्तरेणातिमहता पाणिग्रहमहोत्सवम् ।।८५।। याचितोऽवसरं तेन ततो वेत्रातटप्रभुः । सपौरान्तःपुरस्तस्थावथास्थानं विभूष्य सः ।।८६।। इलापुत्रोऽथ शैलूषपुत्र्या सह तदा तया । ननत नर्तयन्नुः प्रेक्षकाणां शिरांस्यपि ।।७।। रङ्गाजीवाङ्गजायां स भूभुजङ्गोऽथ रङ्गभृत् । इलापुत्रव्ययेनास्याः सङ्गमिच्छन्ननर्गलम् ।।८८।। बभाण भद्र ! वंशाग्रनृत्यकौतूहलं हि नः । चिरादस्ति ततः तत्र प्रावीण्यं प्रकटीकुरु ।।८९।। युग्मम् ।। रगावन्यामथो वंशं निचखान नटाग्रणीः । तस्योपरि ददौ दारुफलकं कीलकान्वितम् ।।१०।। निधाय पदयोर्दारुपादुके छिद्रसंयुते । निस्त्रिंशफलकव्यग्र-पाणियुग्मः क्रमादथ ।।११।। कुर्वाणः करणान्यग्रे सप्त वंशस्य सप्त च । पश्चाद्धागे स वंशाग्रं ययौ निरवलम्बनः ।।१२।। युग्मम् ।। निधाय पादुकारन्ध्रेष्वथ कीलान्यवास्थित । विशिष्माय जनः सर्वस्तेनास्याद्भुतकर्मणा ।।१३।। दातुं प्रगुणितांश्चास्मै हारकेयूरकङ्कणान् । अदत्तेऽरिनृपे दत्ते किन्तु पूर्वं न कोऽपि हि ।।१४।। धृतद्रोहो महीनाथस्तस्याथ पुनरादिशत् । नावधारितमस्माभिः सम्यक्करणकौशलम् ।।१५।। तद्भूयो दर्शयेत्युक्ते स तथैवाकरोत् पुनः । नृपतिनित्रपः किन्तु न दृष्टमिति जल्पति ।।१६।। हाहारवमुखे लोके विदन्नपि नृपाशयम् । इलापुत्रः पुनश्चक्रे त्रिः स्वं करणकौशलम् ।।९७।। फलकाग्रस्थितः सोऽथ चिन्तयामास चेतसि । धिगन्धंकरणं कामतमः सशक्षुषामपि ।।१८।। क्वान्यथा पृथिवीनाथः प्रथितः पृथुभिर्गुणैः । कामं विगर्हिता शिष्टैः क्व चेयं नटकन्यका ।।९९।। अप्सरःप्रतिमास्वासु स्वकान्तासु सतीष्वपि । लुब्धोऽधमायामस्यां यद् वधे मम धियं दधे ।।१००।। उपालम्भोऽथवा कोऽस्य मयैव ननु किं कृतम् । ज्वलन्तं पर्वते वह्निं पश्यामि न पदोः पुरः ।।१०१।। शय्यामिव पणस्त्रीणामनेकविटसेविनाम् । शिष्टेः पुटीमिवोच्छिष्टां वर्जनीयां च दूरतः ।।१०२।। नटकन्यामिमामेकामशक्तेन मयोज्झितुम् । हा हा कलङ्कितं स्वीयं सितांशुविमलं कुलम् ।।१०३।। मया गृहप्रसूतेन सर्वथाऽनुपयोगिना । पित्रोविषद्रुमेणेव सन्तापः प्रत्युतापितः ।।१०४।। तमस्विना प्रदोषेण कामं सङ्कोचितानि च । मुखपद्मानि बन्धूनां बन्धकीबन्धुना मया ।।१०५ ।। भश्मनेवोद्योतिताश्च दुर्जनाननदर्पणाः । उद्धूलितमिदं विश्वं दुर्यश:पांशुवृष्टिभिः ।।१०६।।
4. बन्धकीबन्धुना - बध्नाति चित्तं बन्धको “दृकृ" - (उणा-२७) इत्यकः स्त्रियां डीप् । अभि. चि. ना. श्लो. ५२८ स्वो. वृ. ।। बध्नाति मनः स्नेहादिनो बन्ध+उ बन्धु । श. र. म. ।। बन्धक्याम् बन्धुः, तेन इति समासः ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org