________________
हितोपदेशः । गाथा - २१०
भावधर्मविषये इलापुत्रकथानकम् ।।
स्फुटीकृतेऽत्र दुर्वृत्ते तव कर्णेजपव्रजैः । गृह्णात्यह्नाय सर्वस्वमपि मे वत्स ! भूपतिः ।। ५८ ।। कुर्वन्ति पङ्किबाह्यं मां ध्रुवं सम्बन्धिबान्धवाः । एवं त्वयैव क्लृप्तः स्यात् कलङ्कोऽस्मिन् कुले मम ।। ५९ ।। तस्मादस्मादपस्मारान्निवारय मनो निजम् । शतशः सन्ति नन्वेताः स्वाधीनाः कुलकन्यकाः ।।६०।। सुरूपयाऽपि किं वत्स ! जातिदूषितया तया । श्वपाककूपे यद् वारि शिशिरेणापि तेन किम् ? ।।६१ ।। लज्जामवगणय्याथ स प्रोचे पितरं तदा । तात ! जानामि यत् तातपादैरादिष्टमञ्जसा ।। ६२ ।। शतशोऽपि विचिन्वानः किन्तु जानामि तन्नहि । पातके पातुकं येन हतं चेतो निवर्त्यते ।। ६३ ।। व्याकरोमि कियन्मात्रमत्रपोऽहं पुरस्तव । किन्तु नाप्नोमि यदि तां तदा जीवामि न ध्रुवम् ।। ६४ ।। एवं गुणनिधिर्बुद्ध्वा निर्बन्धमधमेऽस्य तत् । ययाचे तं नटं पुत्रीं पुत्रव्यापत्तिकातरः ।। ६५ ।। कोट्याऽपि हाटकस्यैनां देहि मह्यं निजात्मजाम् । इयमेव यतो दैवाज्जीवातुर्नन्दनस्य मे ।। ६६ ।। रङ्गाजीवोऽप्युवाचैवं श्रेष्ठिन् ! सुष्ठु वचस्तव । किं तु स्याद् गणितं वित्तं गणितानेव वासरान् ।।६७।। इयं तु मद्गृहे बाला सकलद्वीपसम्पदाम् । आकर्षणौषधिः कोशमक्षीणं तदसौ मम ।। ६८ ।। सुवर्णेनापि तुलितां तदेनां न ददाम्यहम् । एतदर्थी सुतस्ते चेज्जामाताऽस्तु गृहे मम ।। ६९ ।। युक्तियुक्तं तदाकर्ण्य जायाजीवस्य जल्पितम् । अभ्यधत्त महेभ्यस्तत् सर्वं पुत्रस्य दुर्म्मनाः ।। ७० ।। इलापुत्रोऽपि तच्छ्रुत्वा चिन्तयामास चेतसि । अकृत्यमपि तातेन कृतं मत्प्रीतिमिच्छता । । ७१ ।। शठस्य सदनुष्ठानमिवाभूत् तत् तु निःफलम् । अहं च तां विना स्थातुं निमेषमपि न क्षमः ।। ७२ ।। आचारपूतस्तातो मे तेन चालङ्कृतं कुलम् । कलङ्कस्तु ममैवायं मद्दुराचारसम्भृतः ।।७३।। पीडा पित्रोर्यादृशी स्यादेनामनुसृते मयि । ततः शतगुणा सा स्यादलाभेऽस्या मृते मयि ।।७४ ।। इत्यादि चिन्तयत्रेव स्मरेणाचिन्त्यशक्तिना । स तदा श्रेष्ठिनः सूनुः मातङ्गचरितः कृतः ।। ७५ ।। कुलाभिमानमालानस्तम्भं भङ्क्त्वाऽथ हेलया । त्रोटयित्वा च गोत्रस्य सुव्यवस्थितिशृङ्खलाम् ।।७६।। अवमत्य महामात्रान् ज्ञानाङ्कुशकरान् गुरून् । सुहृत्सम्बन्धिबन्धूंश्च विधूय प्रतिकारवत् ।। ७७ ।।
1
समानं पुरोऽपश्यत् कीर्त्तिकौशेयमात्मनः । लज्जयाऽबलया दूरं परित्यक्तश्च भीतया ।।७८ ।। स दुर्बोधाध्वना धावन् नटीं विन्ध्याटवीमनु । जगाम मदनोन्माद - मदविह्वललोचनः ।। ७९ ।। कुलकम् ।। ततो भरतपुत्रेण प्रोक्तोऽसौ वत्स ! मत्सुता । चतुर्विधेऽप्यभिनये परं प्रावीण्यमश्नुते ॥ ८० ॥ अनभिज्ञस्तु तत्र त्वमेवं वां सङ्गमो मुधा । अधीष्व तस्मादस्माकं विद्यां विद्याविशारद ! ।। ८१ ।।
२६६
3. रङ्गाजीव - 'नट' इति भाषायाम् । शैलूषो भरतः सर्वकेशी भरतपुत्रकः । धर्मीपुत्रो रङ्गजायाऽऽजीवो रङ्गावतारकः ।। नटः कृशाश्वी शैलाली । अभि. चि. ना. श्लो. ३२८ / ३२९ ।। रङ्गेण जायया वाऽऽजीवति रङ्गाजीवो जायाऽऽजीवः । • अभि. चि. ना. श्लो. ३२८ स्वो वृ. ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org