________________
हितोपदेशः । गाथा-२१० - भावधर्मविषये इलापुत्रकथानकम् ।।
२६५
सस्यसम्पदमापद्य विपक्वपलपेशलाम् । जहास कासच्छलतः कृतकृत्यो घनात्ययः ।।३४।। वाचालितमरालेऽस्मिन् वाचंयमशिखिव्रजे । शरत्काले समित्रोऽगादिलापुत्रस्तदा वनम् ।।३५।। क्रीडद्भिर्विविधं तत्र धनयौवनगर्वितैः । नागरैर्नय॑मानां स प्रत्यग्रोद्भित्रयौवनाम् ।।३६।। दृग्विलासदर्शयन्ती लसदिन्दीवरा दिशः । लावण्यलहरीपूरैः प्लावयन्तीं वनस्थलीम् ।।३७।। विद्याधरीमिव हृतां शापभ्रष्टामिवामरीम् । मनोभुवः प्रभावद्धिमिव स्त्रीरूपधारिणीम् ।।३८।। अङ्गहारैर्नवनवैर्मनांसि वशिनामपि । मोहयन्तीं ददर्शकां नटपुत्रीमिलासुतः ।।३९।। कलापकम् ।। तद् दृष्ट्वा तादृशं तस्या रूपमप्रतिमं तदा । शलभस्येव तस्याथ दृग्विमोहो महानभूत् ।।४०।। ममाज्ञां त्रिजगन्मान्यामवाज्ञासीदसौ चिरम् । इति क्रोधादिवाविध्यत् पुष्पधन्वा तदाथ तम् ।।४१।। अथालिखितवचित्रे पुस्तविन्यस्तमूर्तिवत् । दृषदीव समुत्कीर्णः स जज्ञे निश्चलाङ्गकः ।।४२।। दातुं कुलाभिमानस्य जलाञ्जलिमिवाथ सः । आविश्चकार सर्वाङ्ग स्वेदं सत्त्वसमुद्भवम् ।।४३।। पापद्रुमाङ्करोफ़ेद इव रोमोऽप्यभूत् [तदा । अकृत्यचकितस्येव कम्पः समुदपद्यत ।।४४।। सहैव त्रपया नष्टा चेतनाप्यस्य चेतसः । किं वा न रागिणां कुर्यात् स्मरापस्मारघस्मरः ।।४५।। तथाविधं च तं प्रेक्ष्य भावमस्योपलक्ष्य च । विचक्षणैर्मित्रगणैः स तदेति न्यगद्यत ।।४६।। महचिरमभूद् गेहादिहास्माकमुपेयुषाम् । भविष्यत्यधृतिः पित्रोस्तव कोमलचित्तयोः ।।४७।। प्रकृत्यैवार्यचित्तस्त्वमनार्या वनभूमयः । साम्प्रतं तदिह स्थातुमसाम्प्रतमतः परम् ।।४।। एवमुक्तोऽपि संसक्त इव पङ्के मतङ्गजः । तद्रूपमोहितो यावत्र चचाल पदात् पदम् ।।४९।। बलादपि स निन्ये तैस्तावदावसथं प्रति । धारयन् मनसा सार्द्धनखविच्छेदवेदनाम् ।।५०।। गृहेऽपि विलुठस्तल्पे स्वल्पेऽम्भसि स मीनवत् । कथञ्चिन्न रतिं प्राप रतिनाथविसंस्थुलः ।।५१।। विमुक्तनित्यकृत्यं तं निश्वसन्तं मुहुर्मुहुः । दृष्ट्वा विशङ्कितैमित्रैस्तत्पित्रे तन्यवेद्यत ।।५२।। ततोऽनुचितवृत्तेन तेन सूनोः श्रुतिस्पृशा । विदीर्णमिव तस्याभूत् हृदयं नयशालिनः ।।५३।। उपेत्य स द्रुतपदं दधानमपथे पदम् । विनेतुमेवं प्रारेभे तनयं नयकोविदः ।।५४।। समुत्पन्नोऽसि वत्स ! त्वं कुले प्रालेयनिर्मले । मतिस्तवावजानाति पुत्र ! चित्रशिखण्डिजम् ।।५५।। समस्तशास्त्रनिस्यन्दरहस्यानां त्वमास्पदम् । त्वमेवालम्ब्यसे लोकैः स्खलद्भिर्नयवर्त्मनः ।।५६।। तदमीषां गुणानां ते कस्यानुगुणमीदृशम् । वत्स ! धत्सेऽनुरागं यत् तस्यां शैलूषयोषिति ।।५७।।
__ 2. शैलूषयोषिति - 'नटकन्या' इति भाषायाम् । शैलूष - शिलूषस्य ऋषेरपत्यं शैलूषः वेषान्तरमिति वा "कोरदूषाटरूष" ।। (उणा-५६१) ।। इत्यादिना ऊषान्तो निपात्यते ।। अभि. चि. ना. श्लो. ३२८ स्वो. वृ. ।। शैलूषस्य योषित् तस्मिन् ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org