________________
हितोपदेशः । गाथा-२१० - भावधर्मविषये इलापुत्रकथानकम् ।।
२६३
पाए पवत्तिणीए पणइपरेणं सिरेण सेवंती । पुणरुत्तं निंदती पमायदोसं नियं हियए ।।१२४ ।। वेरग्गभावणाओ भावंती नाणगब्भवेरग्गा । अज्झवसायविसुद्धिं अपत्तपुव्वं च पावंती ।।१२५।। लहिउं अउव्वकरणं आरुहिउँ तक्खणं खवगसेणिं । पत्ता केवलनाणं मिगावई सुद्धभावेणं ।।१२६।। अह कालरत्तिवेणीदंडं व भुयंगमं तहिं भीमं । नाणनयणेण पिच्छइ सविहंमि पवत्तिणीइ इमा ।।१२७।। भूलुलियं बाहुलयं सहसा उक्खिवइ सा तओ तीए । अह चंदणा विणिद्दा मिगावई 'नियइ तह चेव ।।१२८ ।। धिद्धी पमायवसओ विसजिया न हु तुम मए भद्दे ! । किं वा पुट्ठो बाहू सा भणइ पयाइ इह सप्पो ।।१२९ ।। कह पिच्छसि ? नाणेणं, कयरेणं ? केवलेण इय भणिए । पाएसुनिवडिऊणं खमावए चंदणा एयं ।।१३०।। आसाइओ मए हा केवलनाणी कहं ति गरहंती । सुविसुज्झमाणलेसा सा वि हु लहु केवलं लहइ ।।१३१।। इत्थं प्रमादाध्वनि धावितेन सद्ध्यानवीरेण निबर्हितेषु । चतुषु घातिप्रतिपन्थिषु द्राक् मृगावती केवलमाससाद ॥१३३।।२०९।। पुनर्भावनायामेव श्राद्धप्रतिबद्ध दृष्टान्तमभिधित्सुराह -
वियलियकुलाभिमाणो, विमुक्कमेरो वि केवलं जत्तो ।
पत्तो स इलापुत्तो, तस्स नमो सुद्धभावस्स ।।२१०।। तस्मै विशुद्धाय भावाय नमोऽस्तु । यस्मात् स कथायां वक्ष्यमाण इलापुत्रो महेभ्यसूनुः केवलं प्राप्तः । किम्भूतः? विगलितकुलाभिमानोऽपि विस्रस्तगोत्राहङ्कारोऽपि । तथा मुक्तमर्यादः समुल्लविताभिजनजनव्यवस्थोऽपि । गाथाक्षरार्थोऽयम् । भावार्थस्तु कथानकगम्यस्तच्छेदम् - ।। श्रीः ।।
॥ भावधर्मविषये इलापुत्रकथानकम् ।। जम्बूद्वीपाभिधे द्वीपे क्षेत्रमत्रास्ति भारतम् । अखण्डमपि यत् प्राहुः षट्खण्डमिति पण्डिताः ।।१।। तत्र त्रिवर्गकमलाविलासैकनिकेतनम् । इलावर्द्धनमित्यस्ति पुरं सर्वद्धिबन्धुरम् ।।२।। उद्वृत्तशात्रवक्ष्माभृत्पक्षनिस्तक्षणक्षमः । सुत्रामेव क्षितौ तत्र जितशत्रुर्महीपतिः ।।३।। श्यामलासिलता यस्य शोणपाणितलाश्रया । 'रेजे गेलं च मालेव रक्तोत्पलविसर्पिणी ।।४।। विश्वासभाजनं तस्य मनः स्वमिव भूपतेः । नाम्ना गुणनिधिस्तत्र महेभ्यः सान्वयाभिधः ।।५।। कुलसीमन्तिनीयोग्य-समग्रगुणधारिणी । सदा प्रियसदाचारा प्रिया तस्यास्ति धारिणी ।।६।। गाथा-२०९ 1. नियइ - णिअ (दृश्) णिअइ-जोवू ।
- षड. हे. ४/१८१ ।। गाथा-२१० 1. रेजेऽङ्गेऽलं इति पाठः समीचीनो भाति ।
- सम्पा . ।।
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org