________________
२५०
हितोपदेशः । गाथा-२०४, २०५, २०६, २०७ - भावनाया महिमा ।।
एगे संकप्पतरंगिएहिं विसएहिं वेलविजंता ।
सुमिणे वि अदिट्ठसुहा विहुरा अहरं गई जंति ।।२०४।। एके केचन निर्विवेकाः सङ्कल्पतरङ्गितैर्मनोमात्रप्रेजोलद्भिर्विषयैः शब्दादिभिर्विप्लाव्यमानास्तत्त्वतस्तु स्वप्नावस्थायामप्यदृष्टसुखाः । एवं सत्यपि दुरध्यवसायविधुरा अधरां नरकलक्षणां गतिं यान्ति कण्डरीकादिज्ञातेन ।।२०४ ।। तथा -
अन्ने भुंजंता वि हु विउले माणुस्सए महाभोगे ।
तं किंपि सुद्धभावं धरंति मुच्चंति लहु जेण ।।२०५।। अन्ये तु विकस्वरविवेकपरिपाकपेशलमतयो विपुलान् मनुष्यसम्बन्धिनो महाभोगान् भुञ्जाना अपि तत् किमपि स्वगोचरं केवलिगोचरं वा शुभभावनाप्रकर्षमारोहन्ति येन शीघ्रं कर्मबन्धनेभ्यो मुच्यन्ते । आदर्शगृहान्तरपूरितशुक्लध्यानभरतचक्रवर्त्यादिवत् ।।२०५।। एवं च सति किमायातमित्याह -
तम्हा न बज्झचिट्ठा असुहा व सुहा व बलवई इत्थ ।
मणवित्तीइ गुरुत्तं समयविऊ दिति जं बिंति ।।२०६।। तस्मादत्रावास्मिन् धर्मव्यवहारे बाह्या चेष्टा कायिकी वाचिकी वा न बलवती न कार्यकारिणी । किम्भूता? अशुभा आश्रवरूपा, शुभा संवररूपा वा । किन्तु समयविदः सिद्धान्ततत्त्वज्ञाः मनोवृत्तेश्चेतोव्यापारस्यैव गुरुत्वं कार्यकारित्वमारोपयन्ति ।।२०६।। यत्तयेव वदन्ति -
वावाराणं गरुओ मणवावारो जिणेहिं पन्नत्तो ।
जो नेइ सत्तमीए अहवा मुक्खं पराणेइ ।।२०७।। व्यापाराणां कायिकवाचिकमानसिकानां मध्ये मनोव्यापार एव जिनैः सर्वविद्भिः गुरुः कार्यकारी प्रज्ञप्तः । य: प्राणिनं सप्तमी माघवत्यभिधानां नरकावनीं नयति, यश्च मोक्षमजरामरं पदमपि लम्भयति । अन्वयव्यतिरेकाभ्यामत्र राजर्षिप्रसन्नचन्द्र एवोदाहरणमिति ।।२०७।। साम्प्रतं सिंहावलोकितन्यायेन पुनस्तपसः सकाशात् भावनाया एव प्रकृष्टतमत्वं दृष्टान्तेन स्पष्टयन्नाह -
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org