________________
हितोपदेशः । गाथा-२०२, २०३ - भावनायाः फलदर्शनम् ।।
२४९
कुम्भशून्यो मनोरमत्वं न बिभर्ति ।।२०० ।।
तथा – यथा वदनं मुखं सुषमां नो वहति, किम्भूतं ? नयनहीनं लोचनविनाकृतं तयोरेव तच्छोभानिबन्धनत्वात् । यथा च तारुण्यं यौवनं न विराजते । किंविशिष्टं ? लावण्यविवर्जितं लवणिमगुणवन्ध्यं । लावण्यस्यैव प्रायो रागिमनोमोहकत्वात् । एवं च भावशून्योऽन्यो दानादिधर्मोऽपि । श्रद्धाविकला हि दानादयो निष्फलाः स्वल्पफला वा प्रायः सम्पद्येरनिति ।।२०१।। कथमिदमिति चेत्, उच्यते -
जं कट्ठमणुट्ठाणं दाणं सीलं तवो विणा भावं ।
तमकामनिज्जराए निवडइ सव्वं पसूणं व ।।२०२।। यत्शब्दः प्रत्येकमभिसंबध्यते, अतो यत् कष्टमनुष्ठानं कष्टहेतुत्वात् कष्टं । अनुष्ठानमावश्यकचक्रवालसामाचारीकेशोल्लुञ्चनातापनादिकम् । यच्च दानं पूर्वोपवर्णितम् । यञ्च शीलं प्राक् प्रदर्शितमेव । यञ्च तपोऽनन्तरोक्तम्, तदेतत् सकलमपि भावं विना श्रद्धावन्ध्यम् । अकामनिर्जरायामज्ञानक्लेशाधिसहनरूपायां निपतति । केषामिव ? पशूनामिव । यथा हि तिर्यञ्चः स्वसञ्चितदुष्कर्मपारवश्यात् क्षुत्पिपासाशीतोष्णादिवेदनां वेदयन्तोऽप्यज्ञानवशान निर्जराभाजस्तद्वदिति ।।२०२।।
किञ्च दानादिषु दुष्कर्मप्रमथने प्रायस्तपसः प्राधान्यम् । भावनायास्तु ततोऽपि कोटिगुणितनिर्जराफलत्वमुपदर्शयन्नाह -
जं जम्मकोडिघडिएण तिव्वतवसा न खिजए कम्मं ।
उयह सुहभावपसरो खयेइ तं पि हु खणद्धेण ।।२०३।। यत् कर्म मोहनीयादि तीव्रण दुष्करेणापि तपसा द्वादशभेदेन । प्रस्तावात् भावशून्येन न क्षीयते । किंविशिष्टेन? जन्मकोटिसङ्घटितेन भवलक्षशतसुसञ्चितेनाऽपि । 'उयह' पश्यत । यूयमिति प्रेक्षावदामन्त्रणम् । शुभभावप्रसरः विशुद्धध्यानप्रकर्षस्तदपि कर्म क्षपयति, निष्ठां नयति । यदि पुनः पूर्वस्मादपि पुष्कलेन, न इत्याह - क्षणार्द्धन क्षणः पञ्चदशलेशलक्षणस्तस्यार्द्ध सार्द्धसप्तलेशरूपं, तन्मात्रेणातिजघन्येन कालेनेत्यर्थः । अतः सुमहदन्तरं तपोनिर्जराभावनानिर्जरयोरिति ।।२०३।। किञ्च -
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org