________________
हितोपदेशः । गाथा - १९९ - तपधर्मविषये ब्राह्मीकथानकम् ।।
यथौचित्येन राज्यानि वितीर्य स्वाङ्गजन्मनाम् । निरञ्जनमनाः स्वामी स्वयं व्रतमुपाददे ।।१७।। मनांसि संज्ञिजीवानां मनुष्यक्षेत्रवर्त्तिनाम् । प्रकाशयदथ ज्ञानं तुर्यमाविरभूत् प्रभोः ।। १८ ।। द्रव्ये क्षेत्रे च काले च भावे चाप्रतिबद्धधीः । निर्ममो निःकषायश्च सहमान: परीषहान् । । १९ । । आर्यानार्येषु देशेषु प्रक्षीणप्रेमबन्धनः । स धीरेष्वेकधौरेयो विजहार निराश्रयः ।। २० ।। अनार्याः प्रशमं प्रापुः कृतमौनादपि प्रभोः । अजल्पन्नपि कल्पद्रुः किं वा दत्ते न कल्पितम् ।।२१।। व्रताद् वर्षं निरशनश्चीर्णचित्रतपास्ततः । छद्मस्थस्तस्थिवान् स्वामी सहस्रं परिवत्सरान् ।।२२।। कपाटद्वयवत् शुक्लध्यानभेदद्वयेऽग्रिमे । व्यक्तीकृते प्रभुः प्राप ज्ञानरत्नमनश्वरम् ||२३|| ततः समवसरणे सुरासुरविनिर्मिते । निविष्टः प्राङ्मुखः स्वामी चामीकरमयासने ।। २४ ।। सान्तः पुरपरीवारश्चतुरङ्गचमूवृतः । तत्रागाद् भरतश्चक्री नमस्कर्तुं जगद्गुरुम् ।।२५।। सुरासुरनिकायेषु नभश्चरनरेषु च । भगवद्वदनाम्भोजनिलीननयनालिषु ॥ २६ ।। जगद्द्रोहकरीं मोहनिद्रां विद्रावयत्रथ । उपदेशाभीशु पूरं मुमोच जिनभानुमान् ।।२७।। अनादिप्रतिपन्थित्वं मिथ्यात्वस्य जगत्पतिः । प्रथयामास विश्वासघातितां घातिकर्म्मणाम् ।। २८ ।। विषयाणां च वैरस्यं कषायाणां च वैशसम् । दारुणत्वं प्रमादस्याविरतेरधृतिक्रियाम् ।।२९ ।। क्लिष्टत्वं दुष्टयोगानां दौरात्म्यं चार्त्तरौद्रयोः । हेयत्वं संसृतेर्मुक्तेरुपादेयत्वमञ्जसा ।। ३० ।। तया देशनया भर्त्तुः पुण्डरीकपुरस्सराः । प्रदीपनमिव त्यक्त्वा गृहवासं प्रवव्रजुः ।। ३१ ।। विशेषकम् ।। अत्रान्तरे जगद्भर्तुः पुत्री ब्राह्मी सदः स्थिता । श्रोत्राञ्जलिपुटे पीत्वा भगवद्देशनामृतम् ।।३२।। मायेन्द्रजालसदृशं स्वप्नसंगमसन्निभम् । हरिश्चन्द्रपुरीतुल्यं सुरचापसमप्रभम् ।।३३।। द्विजिह्वजिह्वाचपलं करिकर्णचलाचलम् । धनयौवनराज्यादि विभाव्य क्षणभङ्गरम् ।।३४।।
स्वाधीनां पैतृकीं त्यक्त्वा कमलां पुष्कलामपि । स्वामिनः पादपद्मान्ते प्रवव्राज निरञ्जना ।। ३५ । । कलापकम् । । अभ्यस्य द्विविधां शिक्षां निरपेक्षा वपुष्यपि । दुस्तपं सा तपस्तेपे कर्म्मकक्षाशुशुक्षणि ।। ३६ ।। सोपधानानि सर्वाणि स्वोचितानि श्रुतानि सा । अधीयाय धियां धाम स्थविराणामुपासना [] ।। ३७।। प्रायश्चित्तादिना सार्धं तपसाऽभ्यन्तरेण च । विदधे बाह्यमप्युच्चैरबाह्यमलमुक्तये ||३८||
गाथा - १९९ 1. अभीशु - किरण इति भाषायाम् । (अभि+अश+उन् अत इत्वम्) अभ्यश्नाति तमांसीत्यमीशुः पुल्लिङ्गी । “केवयुभुरणटवध्वटर्वादयः । (उणा- ७४६ ) इति उदन्तो निपात्यते । अभीषुरिति गौडः ।
अभि. चि. स्वो नो. श्लो. ९९ ।।
2. ग्रहणशिक्षारूपां आसेवनशिक्षारूपां द्विविधां शिक्षाम् ।
3. उपास्ते या इति उपासना ।।
Jain Education International 2010_02
For Private & Personal Use Only
२३७
-
www.jainelibrary.org