________________
२३६
हितोपदेशः । गाथा-१९९ - तपधर्मविषये ब्राह्मीकथानकम् ।।
वणछिंदओ वि धन्नो उच्छिंदइ अन्ज कम्मवणगहणं । एयारिसंमि पत्तमि भत्तिदाणं पउंजंतो ।।८।। अहमेव परमधनो मुणि व्व जो न हु तवं तविउमीसो । वणछिंदउ व्व दाउं पि दूसिओ तिरियजाईए ।।७।। इय जा तिनि वि एए धम्मज्झाणम्मि संति संलीणा । ताव य पयंडपवणेण पेरिओ अद्धछिन्त्रतरू ।।८।। पडिओ तेसिं उवरिं विसुद्धझाणा य पाविया निहणं । पउमुत्तरि विमाणे य बंभलोगम्मि उप्पना ।।८९।। थेवो वि परिचओ उत्तमाण न हु निप्फलु त्ति बलमुणिणा । अप्पसम चिय विहिया पिच्छह रहयारहरिणा वि
।।१०।।
वर्षाणां शतमित्यसौ मुनिपतिश्चारित्रमत्युत्तमं, निर्वाह्याथ तपोबलेन विफलीकृत्यान्तरारिव्रजम् । प्राप्तः पञ्चमकल्पमप्रतिहतं तत्रापि भुक्त्वा सुखं, मोक्षं यास्यति भारतेऽत्र भगवान् श्रीकृष्णतीर्थान्तरे ।।११।।
[शार्दूलविक्रीडितवृत्तम् कथितं बलदेवाख्यानकम् । अधुना लेशतो ब्राह्मीज्ञातमभिधीयते - ||श्रीः ।।
।तपधर्मविषये ब्राह्मीकथानकम् ।। लोकलोकोत्तराचारस्फुटीकरणवेधसः । युगादिजिननाथस्य युगादिजगतीपतेः ।।१।। जज्ञे सुमङ्गलादेव्यां देवी ब्राह्मीव देहिनी । ब्राह्मीति पुत्री त्रैलोक्यलोकम्पृणगुणोज्ज्वला ।।२।। युग्मम् ।। व्यतीतशैशवा सम्यगष्टाभिर्धीगुणैर्युता । अष्टादशाऽपि हि लिपी: स्वामिना साऽथ शिक्षिता ।।३।। अमानवलिपौ रूपे स्मरोजीविनि यौवने । अनुलेपिकलाकोशे वर्तमाने मनोहति ।।४।। गृहस्थमपि चित्तेन वीतरागतयाश्रितं । ध्यायन्त्याः पितरं तस्या वीतरागमभून्मतः ।।५।। अथ त्रिजगतीभर्तुर्वृषभस्य बिडोजसा । समये समयज्ञेन चक्रे राज्यपदोत्सवः ।।६।। आदिश्य धनदं रत्नस्वर्णप्राकारमन्दिराम् । अचीकरद् विनीताख्यां पुरीं भर्तुः पुरन्दरः ।।७।। ज्ञानत्रयधरः स्वामी संविदानस्तथास्थितिम् । हस्त्यश्वगोरथादीनां विदधे सङ्ग्रहं तदा ।।८।। उग्रान् भोगांश्च राजन्यान् क्षत्रियानप्यसूत्रयत् । कर्मणामनुमानेन तदा च पुरुषान् प्रभुः ।।९।। शिल्पानि कल्पयामास दण्डनीतिमदर्शयत् । पाशुपाल्यं वणिज्यां च कृषि शुल्कस्थितिं च सः ।।१०।। गोत्रश्रोत्रव्यवस्थां च पाणिपीडनकर्म च । शब्दविद्यादिविद्याश्च सर्वाः प्रावर्त्तयत् प्रभुः ।।११।। ऋजून् युयोज विनये दुविनीतानशिक्षयत् । पितेव पालयामास स धर्मविजयी प्रजाः ।।१२।। एवं भोग्यफलं कर्म भुञ्जानस्य जगद्गुरोः । त्र्यशीतिः पूर्वलक्षाणामतिचक्राम जन्मनः ।।१३।। चारित्रावारके कर्मण्यथ शान्तिमुपेयुषि । प्रक्षीणविषये भर्तुर्दीक्षोन्मुखमभून्मनः ।।१४।। अत्रान्तरे च चित्तज्ञैः सुरैः सारस्वतादिभिः । तीर्थप्रवृत्तये स्वामी प्रेरितः प्रीतमानसैः ।।१५।। वत्सरावधिभिर्दानैर्वनीपकजनेप्सितैः । रौद्रदारिद्रदावार्तं निर्वाप्य जगतीजनम् ।।१६।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org