________________
२३२
हितोपदेशः । गाथा-१९९ - तपधर्मविषये बलदेवकथानकम् ।।
एवंविधे तपसि रमध्वम् । किम्भूते? उत्तमपुरुषैस्तीर्थकृद्गणधरादिभिः प्रणीते समुपदिष्टे । तथा तद्विधैरेव पुरुषैराचीर्णे स्वयमनुष्ठिते । तथा निर्मथितभावरोगे विलोडितप्रबलान्तरारिरुजि । वैराग्यकरे भवविरागोत्पादिनि ।।१९८ ।। उत्तमपुरुषाचीर्णत्वमेव तपसो दृष्टान्तैः स्पष्टयन्नाह -
बलदेवमुणी भयवं बंभी य सुसाहुणी तवे तिब्वे ।
आणंदो य महप्पा सुसाविया सुंदरी नायं ।।१९९।। तीव्र तपसि बलदेवमुनिर्भगवान् मुनिषूदाहरणम्, ब्राह्मी च साध्वीषु, आनन्दश्च महात्मा सुश्रमणोपासकेषु, सुन्दरी च सुश्राविकासु ज्ञातमिति । आम्नायसापेक्षाश्च बलदेवादयः । स चायम् -
॥ तपधर्मविषये बलदेवकथानकम् ।। अस्थित्थ भरहवासे विलासभवणं व भुवणलच्छीए । सोरियपुरं ति नयरं नयरंजियनायरजणोहं ।।१।। नीइनईण समुद्दो समुद्दविजउ त्ति तत्थ नरनाहो । वसुदेवो लहुभाया तस्स य सोहग्गकुलगेहं ।।२।। दिसिविजयकोउगेणं परिहिंडतेण तेण परिणीया । रनो रुहिरस्स सुया सयंवरा रोहिणी नाम ।।३।। तस्स य महुराहिवउग्गसेणतणएण कंसनामेण । पिइवेरिएण पीई संघडिया निचवासाउ ।।४।। इत्तो य जरासंधस्स अद्धचक्किस्स कोइ सामंतो । पडिकूलो निद्दलिओ वसुदेवजुएण कंसेण ।।५।। परितुट्टेणं दिना जीवजसा नाम तयणु नियकना । कंसस्स जरासंधेण तह य महुराउरीरजं ॥६॥ पुवभवमच्छरेणं कंसो वि ठविऊण पंजरे पियरं । सयमेव ठिओ रज्जे भुयभडवाएण गजुतो ।।७।। अझंतपणयवसओ वसुदेवो ठाविओ तहिं तेण । महुराउरीइ विलसंति दोवि दोगुंदुग ब्व तओ ।।८।।
वारिधाराचारणाः । कुब्जवृक्षान्तरालभाविनभःप्रदेशेषु चन्द्रार्कग्रहनक्षत्राद्यन्यतमज्योतीरश्मिसम्बन्धेन भुवीव पादविहारकुशला: ज्योतीरश्मिचारणाः । पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुलोमवृत्तिषु तत्प्रदेशावलीमुपादाय गतिमस्खलितचरणविन्यासमास्कन्दतो वायुचारणाः ।
तपश्चरणमाहात्म्याद् गुणादितरतोऽपि वा । आशीविषाः समर्थाः स्युनिग्रहेऽनुग्रहेऽपि च ।।१।। द्रव्याणि मूर्तिमन्त्येव विषयो यस्य सर्वतः । नैयत्यरहितं ज्ञानं तत् स्यादवधिलक्षणम् ।।२।। स्यान्मनःपर्ययो ज्ञानं मनुष्यक्षेत्रवर्तिनाम् । प्राणिनां समनस्कानां मनोद्रव्यप्रकाशकम् ।।३।। ऋजुश्च विपुलश्चेति स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां विपुलस्तु विशिष्यते ।।४।।
-- यो. शा. प्र. १/१० वृत्तौ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org