________________
हितोपदेशः । गाथा-१९८ - तपसि रमध्वम् ।।
२३१
एवं च तपःप्रभावमवबुध्य किं विधेयमित्याह -
उत्तमपुरिसपणीए उत्तमपुरिसेहिं चेव आइन्ने । । निम्महियभावरोगे वेरग्गकरे तवे रमह ।।१९८।।
प्राप्ताश्च यत्र परिमितभूप्रदेशेऽवतिष्ठन्ते तत्रासंख्याता अपि देवास्तिर्यञ्चो मनुष्याश्च सपरिवाराः परस्परबाधारहितास्तीर्थकरपर्षदीव सुखमासते । इति प्रज्ञाश्रमणादिषु महाप्रज्ञादयो महर्द्धयो दर्शिताः ।। सर्वेन्द्रियाणां विषयान् गृह्णात्येकमपीन्द्रियम् । यत्प्रभावेन सम्भिन्नस्रोतो लब्धिस्तु सा मता ।।१।।
__- यो. शा. प्र. १/८ वृत्तौ ।। तथा - चारणाशीविषावधिमनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता विकासिकुसुमश्रियः ।। - यो. शा. प्र. १/९ ।।
अतिशयचरणाञ्चारणा अतिशयगमनादित्यर्थः तत्सम्पत् तल्लब्धिरित्यर्थः । आशीविषलब्धिर्निग्रहानुग्रहसामर्थ्यम्। अवधिज्ञानलब्धिमूर्तद्रव्यविषयं ज्ञानम् । मनःपर्यायज्ञानलब्धिर्मनोद्रव्यप्रत्यक्षीकरणशक्तिः । एता लब्धयो योगकल्पवृक्षस्य कुसुमभूताः । फलं तु केवलज्ञानं मोक्षो वा । तथाहि - द्विविधाश्चारणा ज्ञेया जवा-विद्योत्थशक्तितः । तत्राद्या रुचकद्वीपं यान्त्येकोत्पातलीलया ।।१।। वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरे समायान्ति द्वितीयेन यतो गताः ।।२।। ते चोर्ध्वगत्यामेकेन समुत्पतनकर्मणा । गच्छन्ति पाण्डकवनं मेरुशैलशिरःस्थितम् ।।३।। ततोऽपि वलिता एकोत्पातेनायान्ति नन्दनम् । उत्पातेन द्वितीयेन प्रथमोत्पातभूमिकाम् ।।४।। विद्याचारणास्तु गच्छन्त्येकेनोत्पातकर्मणा । मानुषोत्तरमन्येन द्वीपं नन्दीश्वराह्वयम् ।।५।। तस्मादायान्ति चैकेनोत्पातेनोत्पतिता यतः । यान्त्यायान्त्यूर्ध्वमार्गेऽपि तिर्यग्यानक्रमेण ते ।।६।।
अन्येऽपि बहुभेदाश्चारणा भवन्ति । तद्यथा आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमाद्विना व्योमचारिणः । केचित्तु जल-जवा-फल-पुष्प-पत्र-श्रेण्य-ग्निशिखा-धूम-नीहारा-ऽवश्यायमेघ-वारिधारा-मर्कटतन्तु-ज्योतीरश्मि-पवनाद्यालम्बनगतिपरिणामकुशलाः । जलमुपेत्य वापी-निम्नगा-समुद्रादिष्वप्कायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः । भुव उपरि चतुरङ्गुलप्रमिते
आकाशे जङ्घानिक्षेपोत्क्षेपनिपुणा जङ्घाचारणाः । नानाद्रुमफलान्युपादाय फलाश्रयप्राण्यविरोधेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः । नानाद्रुम-लता-गुल्म पुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्त: कुसुमतलदलावलम्बनासङ्गतयः पुष्पचारणाः । नानावृक्षगुल्मवीरुल्लताविताननानाप्रवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपनिक्षेपपटव: पत्रचारणाः । चतुर्योजनोच्छ्रितस्य निषधस्य नीलस्य चाद्रेष्टङ्कच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणा: । अग्निशिखामुपादाय तेज:कायिकानविराधयन्तः स्वयमदह्यमानाः पादविहारनिपुणा अग्निशिखाचारणाः । धूमवर्ति तिरश्चीनामूर्ध्वगां वा आलम्ब्यास्खलितगमनास्कन्दिनो धूमचारणाः । नीहारमवष्टम्भ्याप्कायिकपीडामजनयन्तो गतिमसङ्गामश्नुवाना नीहारचारणा: । अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः । नभोवम॑नि प्रविततजलधरपटलपटास्तरणे जीवानुपातिचङ्क्रमणप्रभवो मेघचारणाः । प्रावृषेण्यादिजलधरादेविनिर्गतवारिधारावलम्बनेन प्राणिपीडामन्तरेण यान्तो वारिधाराचारणाः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org