________________
२३०
हितोपदेशः । गाथा-१९७ - तपोमहिमा ।।
ईशित्व-वशित्व-अप्रतिघातित्व-अन्तर्धान-कामरूपित्वादयोऽपि । तत्र अणुत्वमणुशरीरविकरणं येन बिशछिद्रमपि प्रविशति, तत्र च चक्रवर्तिभोगानपि भुते । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरीरता । गुरुत्वं च वज्रादपि गुरुतरशरीरत्वेन इन्द्रादिभिरपि प्रकृष्टबलैर्दुस्सहता । प्राप्तिभूमिष्ठस्य अङ्गुल्यग्रेण मेरुपर्वताग्रचन्द्रार्कमण्डलादिस्पर्शसामर्थ्यम् । प्राकाम्यमप्सु भूमाविव प्रविशतो गमनशक्तिः, अप्स्विव भूमावुन्मज्जननिमज्जनेन च । ईशित्वं त्रैलोक्यस्य प्रभुता, त्रिदशेश्वर-तीर्थकरऋद्धेर्विकरणम् । वशित्वं सर्वजीववशीकरणलब्धिः । अप्रतिघातित्वं पर्वतमध्येऽपि निस्संगगमनम् । अन्तर्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः । इत्यादयोऽन्याश्च प्रज्ञाश्रमणत्वादिलब्धयः सर्वास्तपःप्रभावादुद्भवन्तीत्यलं प्रसङ्गेन ।।१९७ ।। ___ 2. तुला - अथवा प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमाविर्भूतासाधारणमहाप्रज्ञद्धिलाभा अनधीतद्वादशाङ्गचतुर्दशपूर्वा अपि सन्तो यमर्थं चतुर्दशपूर्वी निरूपयति तस्मिन् विचारकुच्छ्रेऽप्यर्थेऽतिनिपुणज्ञाः प्राज्ञश्रमणाः । अन्येऽधीतदशपूर्वा रोहिणीप्रज्ञप्त्यादिमहाविद्यादिभिरङ्गुष्ठप्रसेनिकादिभिरल्पविद्याभिश्चोपनतानां भूयसीनामृद्धीनामवशगा विद्यावेगधारणात् विद्याधरश्रमणाः । केचिद् बीज-कोष्ठ-पदानुसारिवृद्धिविशेषद्धियुक्ताः । सुकृष्टसुमतीकृते क्षेत्रे क्षित्युदकाद्यनेककारणविशेषापेक्षं बीजमनुपहतं यथानेकबीजकोटीप्रदं भवति तथैव ज्ञानावरणादिक्षयोपशमातिशयप्रतिलम्भादेकार्थबीजश्रवणे सति अनेकार्थबीजानां प्रतिपत्तारो बीजबुद्धयः । कोष्ठागारिकस्थापितानामसङ्कीर्णानामविनष्टानां भूयसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारितानां श्रोतानामर्थग्रन्थबीजानां भूयसामनुस्मरणमन्तरेणाविनष्टानामवस्थानात् कोष्ठबुद्धयः । पदानुसारिणोऽनुस्रोत: पदानुसारिणः प्रतिस्रोतः पदानुसारिण उभयपदानुसारिणश्च । तत्रादिपदस्यार्थं ग्रन्थं च परत उपश्रुत्य आ अन्त्यपदादर्थ-ग्रन्थविचारणासमर्थपटुतरमतयोऽनुस्रोतः पदानुसारिबुद्धयः । अन्तपदस्यार्थं ग्रन्थं च परत उपश्रुत्य ततः प्रातिकूल्येनादिपदाद् आ अर्थग्रन्थविचारपटवः प्रतिस्रोतः पदानुसारिबुद्धयः । मध्यपदस्यार्थं ग्रन्थं च परकीयोप-देशादधिगम्याद्यन्तावधिपरिच्छिन्नपदसमूहप्रतिनियतार्थग्रन्थोदधिसमुत्तरणसमर्थासाधारणातिशयपटुविज्ञाननियता उभयपदानुसारिबुद्धयः । बीजबुद्धिरेकपदार्थावगमादनेकार्थानामवगन्ता, पदानुसारी त्वेकपदावगमात् पदान्तराणामवगन्तेति विशेषः ।
तथा मनोवाक्कायबलिनः । तत्र प्रकृष्टज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषेण वस्तूद्धृत्यान्तर्मुहूर्तेन सकलश्रुतोदध्यवगाहनावदातमनसो मनोबलिनः । अन्तर्मुहूर्तेन सकलश्रुतवस्तूच्चारणसमर्था वाग्बलिनः । अथवा पदवाक्यालङ्कारोपेतां वाचमुचैरुञ्चारयन्तोऽविरहितवाक्क्रमाहीनकण्ठा वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविभूतासाधारणकायबलत्वात् प्रतिमयावतिष्ठमानाः श्रमक्लमविरहिता वर्षमात्रप्रतिमाधरा बाहुबलिप्रभृतयः कायबलिनः । ___ तथा क्षीरमधुसर्पिरमृतास्रविणः । येषां पात्रपतितं कदन्नमपि क्षीरमधुसर्पिरमृतरसवीर्यविपाकं जायते वचनं वा शारीरमानसदुःखप्राप्तानां क्षीरादिवत् सन्तर्पकं भवति ते क्षीरास्रविणो मध्वास्रविणः सर्पिरास्रविणोऽमृतास्रविणश्च ।
केचिदक्षीणद्धियुक्ताः, ते च द्विविधा अक्षीणमहानसा अक्षीणमहालयाश्च । येषामसाधारणान्तरायक्षयोपशमादल्पमात्रमपि पात्रपतितमन्नं गौतमादीनामिव बहुभ्यो दीयमानमपि न क्षीयते तेऽक्षीणमहानसाः । अक्षीणमहालयर्द्धि
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org