________________
हितोपदेशः । गाथा-१९७ - तपोमहिमा ।।
तदेतत् सकलमपि तपःपादपस्य फलम् । यत् किम्? यजिनसमये अर्हदागमे श्रूयते, किं तद् ? इत्याह - आम षधिविप्रुडोषधिखेलौषधिजल्लौषधिप्रमुखम् । किमुक्तं भवति - किल तपस्विनां हि तीव्रतप:प्रभावाद् देहस्य स्पर्श-विग्रुट्-खेल-जल्लाः नख-केश-रदादयश्चान्येऽपि देहावयवाः सर्वोषधिरूपतां भजन्ते । कस्तूरिकाकर्पूरादिभ्योऽप्यधिकतरपरिमलाश्च भवन्ति । तथाहि - मेघमुक्तं नदीवाप्यादिगतं च वारि तदङ्गसङ्गममात्रात् सर्वरोगहरं भवति । तथा तीव्रविषमूर्छिता अपि तदीयाङ्गसङ्गिवातस्पर्शादेव देहिनः सपदि निर्विषीभवन्ति । विषसंपृक्तमप्यन्नं तन्मुखप्रविष्टमविषं भवति । घोरापस्मारभूतप्रेताद्यावेशविसंस्थुला अपि तद्वचःश्रवणमात्रात्तद्दर्शनाञ्च वीतविकारा भवन्ति, एवं च यथा तपस्विनां स्पर्शनदर्शनादयो महामहिमानस्तथा विपुटखेलजल्लप्रभृतयोऽपि । श्रूयते हि महात्मना श्रीसनत्कुमारचक्रवर्तिमुनिना गलत्पामा निजकरकिशलयाङ्गुली श्लेष्मलवलेपात् तप्ततपनीयशलाकासुन्दरा विरचितेति । यथा च निरुपमतपोऽनुभावान्महात्मनामामर्शादिलब्धयः सम्पद्यन्ते तथा अणुत्व-महत्त्व-लघुत्व-गुरुत्व-प्राप्ति-प्राकाम्यगाथा-१९७ 1. तुला - कफविपुण्मलामर्शसौषधिमहर्द्धयः ।।
सम्भिन्नश्रोतोलब्धिश्च योगं ताण्डवडम्बरम् ।। - यो. शा. प्र. १/८ महर्द्धिशब्दः प्रत्येकमभिसम्बध्यते । कफः श्लेष्मा । विपुडुच्चारः पुरीषमिति यावत् । मलः कर्ण-दन्त-नासिकानयन-जिह्वोद्भवः शरीरसम्भवश्च । आमझे हस्तादिना स्पर्शः । सर्वे विण-मूत्र-केश-नखादय उक्ता अनुक्ताश्च औषधयो योगप्रभावान्महर्द्धयो भवन्ति । अथवा महर्द्धयो विभिन्ना एवाणुत्वादयः । तथा श्रोतांसीन्द्रियाणि संभिन्नानि सङ्गतानि एकैकशः सर्वविषयैः, तेषां लब्धिः, योगस्येदं यौगं ताण्डवडम्बरं विलसितम् ।
किञ्च - मेघमुक्तमपि वारि यदङ्गसङ्गमात्राद् नदीवाप्यादिगतमपि सर्वरोगहरं भवति । तथा विषमूर्छिता अपि यदीयाङ्गसङ्गिवातस्पर्शादेव निर्विषीभवन्ति, विषसंपृक्तमप्यन्नं यन्मुखप्रविष्टमविषं भवति, महाविषव्याधिबाधिता अपि यद्वचःश्रवणमात्राद् यद्दर्शनाञ्च वीतविकारा भवन्ति, एष सर्वोऽपि सर्वोषधिप्रकारः । एते कफादयो महर्द्धिरूपाः ।
अथवा महर्द्धयो विभिन्ना एव । विक्रियालब्धयोऽनेकधा, अणुत्व-महत्त्व-लघुत्व-गुरुत्व-प्राप्ति-प्राकाम्येशित्ववशित्वा-ऽप्रतिघातित्वा-ऽन्तर्धान-कामरूपित्वादिभेदात् । अणुत्वमणुशरीरविकरणम्, येन बिसच्छिद्रमपि प्रविशति तत्र च चक्रवर्तिभोगानपि भुङ्क्ते । महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्यम् । लघुत्वं वायोरपि लघुतरशरीरता । गुरुत्वं वज्रादपि गुरुतरशरीरतया इन्द्रादिरपि प्रकृष्टबलैर्दु:सहता । प्राप्तिर्भूमिस्थस्य अङ्गुल्यग्रेण मेरुपर्खताग्रप्रभाकरादिस्पर्शसामर्थ्यम् । प्राकाम्यमप्सु भूमाविवाऽप्रविशतो गमनशक्तिः, तथा अप्स्विव भूमावुन्मज्जननिमज्जने । ईशित्वं त्रैलोकस्य प्रभुता तीर्थकर-त्रिदशेश्वरऋद्धिविकरणम् । वशित्वं सर्वजीववशीकरणलब्धिः । अप्रतिघातित्वं अद्रिमध्येऽपि निःसङ्गगमनम् । अन्तर्धानमदृश्यरूपता । कामरूपित्वं युगपदेव नानाकाररूपविकरणशक्तिः इत्येवमादयो महर्द्धयः । - यो. शा. प्र. १/८ वृत्तौ ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org