________________
२२८
हितोपदेशः । गाथा-१९५, १९६, १९७ - तपसः फलवर्णनम् ।।
भगवद्भिरभिहितं । किन्तु प्रायो बाहुल्येन अनिकाचितानां स्पृष्टाद्यवस्थास्थितानां । तुः पुनरर्थे । तपसा पुननिकाचितानामपि प्रकृतीनामुपक्रमः संभवति । अत्र च निकाचितानामिति निकाचितानामिव निकाचितानां, निकाचनयोग्याऽध्यवसायप्रकर्षभूमिसामीप्यमारोपितानामित्यर्थः । अवश्यनिकाचितानां तु वेदनाभावान्न संक्षय इति ।।१९४ ।। एवं च तप:प्रभावमवबुद्ध्य किं विधेयमित्याह -
तम्हा चिरचित्रकुकम्मसेल - दंभोलिसच्छहम्मि तवे ।
सययं समग्गमंगल - मूले सम्म समुजमह ।।१९५।। तस्मादेवं सत्यस्मिन् तपसि सम्यक् त्रिकरणशुद्धया सततं समुद्यच्छत । किम्भूते ? चिरचीर्णकुकर्मशैलदम्भोलिप्रतिमे भूरिभवोपात्तकुकर्मशिलोच्चयदलनकर्कशकुलिशसदृशे, पुनः किंविशिष्टे? समग्रमङ्गलमूले दूर्वाऽक्षतादिमङ्गलेभ्यः प्रकृष्टतमे तपो मङ्गलमादिममिति श्रुतेः ।।१९५।। तथा -
पसमंति विग्घसंघा दबंता इंदिया य दम्मति । सिझंति वंछियत्था तवेण देवा वसे हुंति ।।१९६।। अनेन तपसा तदेतद् भवति । किं तद्? इत्याह-विघ्नसङ्घाः प्रत्यूहव्यूहाः प्रशाम्यन्ति । श्रूयते हि हिंस्रसत्त्वसम्पातभयङ्करे कान्तारे नलविप्रयुक्ताया दवदन्त्यास्तीव्रतपःप्रभावाद् विविधविघ्नोपशान्तिः । तथा दुर्दान्तानि इतरोपायैः प्रायशो दुर्निग्राह्याणि इन्द्रियाण्यक्षाणि तपसा दाम्यन्ति। तीव्रतपःप्रक्षीणधातूनां हि कुतः करणचापलप्रवृत्तिः ? तथा सिध्यन्ति निष्पद्यन्ते वाञ्छितार्था मनोऽभिलषितानि कार्याणि । सुलसा-देवक्यादीनामिव तपःप्रगुणितगीर्वाणानुग्रहादङ्गजलाभः । तथा देवास्त्रिदशा अपि तपसा वशीभवन्ति किङ्करत्वमाचरन्ति । कृष्णस्येव अष्टमतपोऽवसाने सुस्थितो लवणार्णवपतिः ।।१९६।। पुनस्तपोमहिमानमुदीरयन्नाह -
आमोसहि-विप्पोसहि-खेलोसहि-जल्लओसहीपमुहं ।
जंजिणसमए सुम्मइ तं तवतरुणो फलं सयलं ।।१९७।। गाथा-१९५ 1. तुला - धम्मो मंगलमुक्किटुं, अहिंसा संजमो तवो । देवा वि तं नमसंति जस्स धम्मे सया मणो ।
- दश. द्रुम. अ. गा. १ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org