________________
हितोपदेशः । गाथा-१९३, १९४ - तपसः फलवर्णनम् ।।
२२७
जायन्ताम्, प्रभुत्वमीशित्वं वा सम्पद्यताम्, तथा यशः सर्वदिग्व्यापकं जीवत्प्रसिद्धिरूपं वा प्रभवतु, कीतिरेकदिग्गामिनी लोकान्तरितप्रसिद्धिरूपा वा प्रादुर्भवतु इत्यादिभिरन्यैरप्येवम्प्रकारैः कामैन तपः कुर्वीत ।।१९१।।
तर्हि किंफलमाकलदुष्करस्यास्य तपसो विधानमित्याह - केवलं स्वकृतानां कर्मणां ज्ञानावरणादीनां समूलोन्मूलनाय । किम्भूतानां? पूर्वमनादौ संसारे दुश्चीर्णानां दुष्टाध्यवसायेन निबद्धानां । तथा दुष्प्रतिक्रान्तानां गुर्वादीनां पुरतोऽनालोचिताप्रतिक्रान्तानाम् । अत एव वेदनीयानामवश्यवेद्यानाम् । एवंविधानां कर्मणामामूलत उच्छेदनार्थम् । यदाहुः -
न इहलोगट्ठयाए तवमहिट्ठिज्जा । नो परलोगट्ठयाए तवमिहिट्ठिज्जा । नो कित्तिवन्नसद्दसिलोगट्ठयाए तवमहिट्ठिजा । ननत्थ पुञ् िदुञ्चिन्नाणं दुप्पडिकंताणं वेयणिजाणं कडाणं कम्माणं निज़रट्ठाइ त्ति [ ]।।१९२।। ननु दयादानादयोऽपि कर्मनिर्मूलनोपायाः सन्ति, तत् किमतिदुष्करतपःक्लेशेनेत्याशङ्क्याह -
न य अन्नो वि हु बलवं एयाण निकाइयाण कम्माणं ।
दुट्ठाण दलणहेऊ हविज सुत्ते जओ वुत्तं ।।१९३।। अमीषां च दुष्टाध्यवसायनिमित्तत्वेन दुष्टानां कर्मणां न चान्यो दयादानादिर्दलनहेतुर्विफलीकारकारणं । तर्हि निष्फलैव दयादानादिप्रवृत्तिः न, इत्याह - किम्भूतानां कर्मणां निकाचितानां बन्धस्य प्रकर्षावस्थामापन्नानाम् । अयमाशयः - स्पृष्ट नि]धत्तबद्धानि हि कर्माणि विलीयन्त एव यमदमादिभिः, निकाचितानां तु कर्मणां दलने तप एव बलवत्तरम् । कथमिदमिति चेत्, ‘सुत्ते जओ वुत्तं' यद् यस्मात् सूत्रे समये एतदेवोक्तम् ।।१९३।। तदेव दर्शयति -
सव्वासिं पगडीणं परिणामवसादुवक्कमो भणिओ । ___पायमनिकाइयाणं तवसा उ निकाइयाणंपि ।।१९४।। सर्वासामेव मूलोत्तरकर्मप्रकृतीनां परिणामवशात्शुभाध्यवसायप्रकर्षादुपक्रमः प्रोज्ज्वलनं
गाथा-१९२ 1. तुला - चउव्विहा खलु तवसमाही भवइ । तं जहा - नो इहलोगट्ठयाए तवमहिट्ठिज्जा, नो परलोगट्ठयाए तवमहिट्ठिज्जा, नो कित्तिवन्नसद्दसिलोगट्ठयाए तवमहिट्ठिज्जा, नऽन्नत्थ निज्जरट्ठयाए तवमहिट्ठिज्जा चउत्थं पयं भवइ । भवइ अ इत्थ सिलोगो - विविहगुणतवोरए य निञ्चं, भवइ निरासए निज्जरट्ठिए । तवसा धुणइ पुराणपावगं जुत्तो सया तवसमाहिए ।। - दश. ९ अ. ४३ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org