________________
हितोपदेशः । गाथा-१९० - आभ्यन्तरतपसः स्वरूपम् ।।
२२५
एतच्छेदपर्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसूरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वचालग्नः शल्यो देहावुद्धियते । न तत्र व्रणस्य मर्दनं विधीयते, शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोद्धृतशल्ये मर्दनं क्रियते, न तु कर्णमलेन पूर्यते । तृतीये तु दूरतरगतशल्ये शल्योद्धारमर्दनकर्णमलपूरणानि क्रियन्ते । चतुर्थे तु शल्याकर्षणमर्दनरुधिरगालनानि वेदनाऽपहारार्थं क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणं ततो गमनादिचेष्टा निवार्यते । षष्ठे हितमितभोजनो अभोजनो वा शल्योद्धारानन्तरं भवति । सप्तमे तु शल्योद्धारानन्तरं यावच्छल्येन मांसादि दूषितं तावच्छिद्यते । गोनसभक्षितादौ पादवल्मीके वा पूर्वोक्तक्रियाभिरनुपशमाद् विसर्पति अङ्गच्छेदः सहाऽस्थ्ना शेषरक्षार्थं च विधीयते । एवं द्रव्यव्रणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः । यदाहुर्भगवद्भद्रबाहुस्वामिपादाः --
तणुओ अतिक्खतुंडो असोणिओ केवलं तयालग्गो। उद्धरिउं अवणिजइ सल्लो न मलिजइ वणो उ ।।१।। लग्गोद्धियम्मि बीए मलिजइ परं अदूरगे सल्ले । उद्धरण-मलण-पूरण दूरयरगए तइयगम्मि ।।२।। मा वेयणा उ तो उद्धरित्तु गालिंति सोणिय चउत्थे । रुज्झउ लहुं ति चेट्ठा वारिजइ पंचमे वणिणो ।।३।। रोहेइ वणं छटे हियमियभोई अभुंजमाणो वा । तित्तियमित्तं छिजइ सत्तमए पूइमंसाइ ।।४।। तह वि य अठायमाणे गोणसखइयाइ रप्फए वा वि । कीरइ तयंगछेओ सअट्ठिओ सेसरक्खट्ठा ।।५।। मूलोत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स ।
अवराहसल्लपहवो भाववणो होइ नायव्यो ।।६।। [आवश्यकनियुक्तौ गाथा-१४३४-१४३९] प्रमाददोषव्युदास - भावप्रसाद - नैःशल्य - अनवस्थाव्यावृत्ति - मर्यादाऽत्याग-संयमदााऽऽराधनादि प्रायश्चित्तफलम् ।। (२विनयस्तु विनयद्वार एव व्याख्यास्यते ।। (३)व्यापृतो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरस्तस्य भावः कर्म वा वैयावृत्यम् । तच्च
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org