________________
२२४
हितोपदेशः । गाथा-१९० - आभ्यन्तरतपसः स्वरूपम् ।।
(३मिश्रमालोचनप्रतिक्रमणरूपं, प्रागालोचनं पश्चाद् गुरुसन्दिष्टेन विधिना प्रतिक्रमणम् । (विवेकः संसक्तानपानोपकरणशय्यादिविषयस्त्यागः । (५)व्युत्सर्गोऽनेषणीयादिषु त्यक्तेषु गमनागमन-सावद्यस्वप्नदर्शन-नौसन्तरणोञ्चारप्रश्रवणेषु च विशिष्टप्रणिधानपूर्वकः कायवाङ्मनो-व्यापारपरिहारः ।
(६)तपस्तु छेदग्रन्थानुसारेण जीतकल्पानुसारेण वा येन केनचित्तपसा विशुद्धिर्भवति तत्तद् देयमासेवनीयं च ।।७।। (७°छेदस्तपसा दुर्दमस्य अहोरात्रपञ्चकादिना क्रमेण श्रमणपर्यायच्छेदनम् । (८'मूलं महाव्रतानां मूलत आरोपणम् । (९'अनवस्थाप्यता दुष्टपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणम् । तपःकर्म चास्योत्थाननिषदनादिकर्मकरणाशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदा अन्यान् प्रार्थयते, आर्या ! उत्थातुमिच्छामीत्यादि । ते तु तेन सह सम्भाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति । यदाह -
उट्ठिज निसीइज व भिक्खं हिंडिज मत्तगं पेहे ।
कुवियपियबंधवस्स व करेइ इयरो वि तुसिणीओ ।।१।। [व्यवहारभाष्ये प्र. ३ गाथा-३६८] एतावति तपसि कृते तस्योत्थापना विधीयते । (१० तथा पारमन्तं प्रायश्चित्तानां, तत उत्कृष्टतरप्रायश्चित्ताभावात् । अपराधानां वा पारमञ्चति गच्छतीत्येवंशीलं पाराञ्चितं, तदेव पाराञ्चितकम् । तच्च महत्यपराधे लिङ्गकुलगणसङ्केभ्यो बहिःकरणं ।
मुक्तिनिमित्तत्वादितरे एव तप: ५ । तथा उत्सर्जनं-त्यजनमुत्सर्गः, स च द्वेधा-द्रव्यतो भावतश्च, द्वावपि चतुर्धा, तत्र द्रव्यतश्चतुर्धा गणशरीरोपध्याहारभेदात्, भावतस्तु चतुर्धा चित्तकोपाधित्यागरूपत्वादस्य ६ । 'अभिंतरउ' त्ति आभ्यन्तरकं-अबाह्यं, लौकिकैः, प्रायो ऽनभिलक्ष्यत्वातंत्रान्तरीयैर्भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाञ्च तपो-निर्जराहेतुर्भवति-स्यादिति गाथार्थः ।।
- पञ्चा. अभय. १९/३ वृत्तौ ।। स्वोपज्ञवृत्तियुते धर्मसङ्ग्रहे तृतीयाधिकारे गा. १२५ वृत्तौ तपाचारस्वरूपं प्रोक्तं तद् दृश्यताम् । दृश्यतां तत्त्वार्थसूत्रे (९/२०-४६) तद्भाष्ये सिद्धसेनगणिविरचितायां तद्वृत्तौ च ? दृश्यतां पञ्चवस्तुके गा. ८४६ वृत्तौ अभ्यन्तरतपस्वरूपम् ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org