________________
हितोपदेशः । गाथा-१९० -आभ्यन्तरतपसः स्वरूपम ।।
२२३
(२)अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणमपसरणं प्रतिक्रमणम्, तच्च मिथ्यादुष्कृतसम्प्रयुक्तेन पश्चात्तापेन पुनरेवं न करिष्यामीति प्रत्याख्यानम् ।। प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थाना-ऽभिगमना-ऽअलिकरणादिरुपचारविनयः, परोक्षेष्वपि काय-वाङ्-मनोभिरञ्जलिक्रियागुणसंकीर्तना-ऽनुस्मरणादिरुपचारविनयः । ___अथ व्युत्सर्गः । व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः । स द्विविधः-बाह्य आभ्यन्तरश्च । तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य अनेषणीयस्य संसक्तस्य वाऽन्नपानादेर्वा त्यागः, मृत्युकाले शरीरस्य च त्यागः । ननु व्युत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? सत्यम्, सोऽतिचारविशुद्ध्यर्थ उक्तः, अथ तु सामान्येन निर्जरार्थ इत्यपौनरुक्तयम् । __ अथ शुभध्यानम् । शुभमार्त्त-रौद्रविवेकेन शुभरूपं धर्म्य-शुक्लरूपं ध्यानं शुभध्यानम् । अत्रातरौद्रध्याने उक्तपूर्वे, धर्म्य शुक्लं च शुभध्याने वक्ष्येते । इत्यनेन प्रकारेण षोढाऽऽभ्यन्तरं तपः इदं चाभ्यन्तरस्य कर्मणस्तापकत्वात्, अभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाञ्चाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थः, यदाह - “संवर-विणिज्जराओ मोक्खस्स पहो तवो पहो तासिं । ज्झाणं च पहाणगं तवस्स तो मोक्खहेऊ तं ।।१।। - ध्यानशतके गा. ९६ ।। यो. शा. प्र. ४/९० वृत्तौ ।।
तुला - उक्तं बाह्य तपः, अथान्तरमाह - ‘पाये'त्यादि, प्रायश्चित्तं-उक्तशल्यार्थमालोचनादिप्रायुक्तं तथा विनीयतेअपोह्रते कर्मानेनेति विनयः, स च ज्ञानदर्शनचारित्रमनोवाक्कायोपचारभेदात् सप्तधा, तत्राद्यो मत्यादीनां श्रद्धानभक्ति बहुमानतद्दष्टार्थभावनाविधिग्रहणाभ्यासरूप: १, द्वितीयस्तु सम्यग्दर्शनगुणाधिकेषु शुश्रूषाऽनाशातनाभेदात् द्वेधा, तयोश्चाद्यः 'सत्कारा-ऽभ्युत्थान-सन्माना-'ऽसनाभिग्रहा-'ऽऽसनानुप्रदान- कृतिकर्मा-"ऽञ्जलिग्रहा-'ऽऽगच्छदनुगमन-स्थितपर्युपासन-"गच्छदनुव्रजनभेदाद्दशधा प्रसिद्ध एव, नवरं सत्कारो-वन्दनादिः, गौरव्यदर्शने विष्टरत्यागः, सन्मानोवस्त्रादिपूजनं, आसनाभिग्रहः पुनः तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनं, आसनानुप्रदान-आसनस्य स्थानान्तरसञ्चारणं, आगच्छतोऽनुगमनं-अभिमुखयानमिति, अनाशातनाविनयस्तु पञ्चदशधा, तद्यथाजिनधर्मसूरिवाचकस्थविरकुलगणसङ्घसांभोगिकक्रियाज्ञानपञ्चकानामनाशातनाभक्तिबहुमानवर्णवादाश्चेति, अत्र च क्रिया आस्तिक्यमुच्यते २, चारित्रविनयस्तु सामायिकचारित्राणां श्रद्धानकरणप्ररूपणानि ३ मनोवाक्कायविनयास्तु आचार्यादिष्वकुशलानां चित्तादीनां सदा निरोधः कुशलानां पुनरुदीरणेति ६, उपचारविनयस्तु सप्तधा - अभ्यासासनं १ छन्दोऽनुवर्त्तनं २ कृतप्रतिकृतिः ३ कारितनिमित्तकारणं ४ दुःखार्तगवेषणं ५ देशकालज्ञानं ६ सर्वत्रानुमति ७ चेति, प्रतीतश्चायं, नवरं कृतप्रतिकृति म विनयात्प्रसादिताः सूरयः श्रुतं दास्यन्तीत्यभिप्रायेणाशनदानादियत्नः, कारित-निमित्तकरणं तु - सम्यगर्थपदमध्यापितस्य विशेषेण विनये वृत्तिस्तदर्थानुष्ठानं चेति, दुःखार्तगवेषणं तु - दुःखितस्य प्रतीकारकरणमिति: ७२ । तथा व्यावृत्तस्य - अशनादिदानव्यापारवतो भावः कर्म वा वैयावृत्त्यं, तञ्चाचार्योपाध्यायस्थविरतपस्विग्लानशैक्षसाधर्मिककुलगणसङ्घभेदाद्दशधा । तथैवेति समुच्चये, सुष्ठु आ - मर्यादयाऽध्यायः-अध्ययनं स्वाध्यायः, स च पञ्चधा - वाचनापृच्छनापरिवर्तनानुप्रेक्षाधर्मकथाभेदादिति ४ । तथा ध्यातिनं-अन्तर्मुहूर्तमानं चित्तैकाग्रता, तञ्चार्तरौद्रधर्म्यशुक्लभेदाञ्चतुर्धा, तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिनिमित्तत्वादितरे एव तपः ५ । तथा उत्सर्जनंत्यजनमुत्सर्गः, स च द्वेधा-द्रव्यतो भावतश्च, द्वावपि चतुर्धा, तत्र द्रव्यतश्चतुर्धा गणशरीरोपध्याहारभेदात्, भावतस्तु चतुर्धा
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org