________________
२२२
हितोपदेशः । गाथा-१९० - आभ्यन्तरतपसः स्वरूपम् ।।
(१'तत्राऽऽलोचनं गुरोः पुरतः आसेवनानुलोम्येन प्रायश्चित्तानुलोम्येन वा स्वापराधस्य प्रकटनम् ।
प्रमाददोषव्युदास - भावप्रसाद-नैःशल्या-ऽनवस्थाव्यावृत्ति-मर्यादाऽत्याग-संयमदाय-ऽऽराधनादि प्रायश्चित्तफलम्।
अथ वैयापृत्त्यम् । व्यापृतो व्यापारप्रवृत्तः प्रवचनोदितक्रियानुष्ठानपरः, तस्य भावः कर्म वा वैयापृत्त्यम् । व्याधिपरीषह-मिथ्यात्वाद्युपनिपाते तत्प्रतीकारो बाह्यद्रव्यासंभवे स्वकायेन तदानुकूल्यानुष्ठानं च । तञ्चाचार्योपाध्यायस्थविर-तपस्वि-शैक्ष-ग्लान-साधर्मिक-कुल-गण-सङ्घलक्षणविषयभेदेन दशधा । तत्र स्वयमाचरति परांश्चाचारयति, आचर्यते सेव्यत इति वाऽऽचार्यः । स पञ्चधा - प्रव्राजकाचार्यः, दिगाचार्यः, उद्देशाचार्यः, समुद्देशानुज्ञाचार्यः, आम्नायार्थवाचकाचार्य इति । तत्र सामायिकव्रतादेरारोपयिता प्रव्राजकाचार्यः । सचित्ताचित्तमिश्रवस्त्वनुज्ञायी दिगाचार्यः । प्रथमत एव श्रुतमुद्दिशति यः स उद्देशाचार्यः । उद्देष्टगुर्वभावे तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः सः समुद्देशानुज्ञाचार्यः । आम्नायमुत्सर्गाऽपवादलक्षणमर्थं वक्ति यः स प्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्याद्यनुज्ञायी आम्नायार्थवाचकः । आचारगोचरविनयं स्वाध्यायं चाचार्याल्लब्धानुज्ञाः साधव उप समीपे ऽधीयतेऽस्मादित्युपाध्यायः। स्थविरो वृद्धः । स श्रुतपर्याय-वयोभेदात् त्रिविधः । श्रुतस्थविरः समवायाङ्गं यावदध्येता, पर्यायस्थविरो यस्य दीक्षितस्य विंशत्यादीनि वर्षाणि, वयःस्थविरः सप्तत्यादिवर्षजीवितः । विकृष्टं दशमादिकिञ्चिन्यूनषण्मासान्तं तपः कुर्वंस्तपस्वी । अचिरप्रव्रजितः शिक्षार्हः शैक्षः । रोगादिक्लिष्टशरीरो ग्लानः । साधर्मिकाः समानधर्माणो द्वादशविधसम्भोगवन्तश्च । बहूनां गच्छानामेकजातीयानां समूहः कुलं चान्द्रादि । गच्छस्त्वेकाचार्यप्रणेयः साधुसमूहः । कुलसमुदायो गण: कोटिकादिः । साधु-साध्वी-श्रावकश्राविका-समुदायः सङ्घः । एषामाचार्यादीनामन्न-पान-वस्त्र-पात्र-प्रतिश्रय-पीठ-फलक-संस्तारकादिभिर्धर्मसाधनैरुपग्रह: शुश्रूषा-भैषजक्रिया, कान्ताररोगोपसर्गेषु परिपालनम् एवमादि वैयापत्त्यम् ।
अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविध: - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः, धर्मोपदेशश्चेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितबलाधानाय वा परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यास: । आम्नायो घोषविशुद्धं परिवर्तनम्, गुणनम्, रुपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् ।
अथ विनयः । विनीयते क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः । स चतुर्धा ज्ञानदर्शनचारित्रोपचारभेदात् । तत्र सबहुमानं ज्ञानग्रहणाऽभ्यास-स्मरणादि-निविनयः । सामायिकादौ लोकबिन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशितपदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानिःशङ्कितत्वादिना दर्शनविनय: । चारित्रवतश्चारित्रे समाहितचित्तता चारित्रविनयः,
तस्य व्रणिनः रौद्रतरत्वाच्छल्यस्येति गाथार्थः ।। रोहेइ वणं छठे' इति रोहयति व्रणं षष्ठे शल्ये उद्धृते किम् ? पूतिमांसादीति गाथार्थः । तहवि य अठायेति तथापि च अट्ठायमाणे त्ति अतिष्ठति सति विसर्पति इत्यर्थः, गोनसभक्षितादौ रुष्क (रुम्फ) कैर्वापि, क्रियते तदङ्गच्छेदः सहास्थिकः शेषरक्षार्थमिति गाथार्थः । एवं तावद् द्रव्यत्रणस्तचिकित्सा च प्रतिपादिता।। ____ अधुना भावव्रणः प्रतिपाद्यते - 'मूलुत्तरगुणरूवस्स' गाहा । इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते । मूलगुणाः प्राणातिपातादिविरमणलक्षणाः, पिण्डविशुद्धयादयस्तु उत्तरगुणाः, एते एवं रूपं यस्य स मूलगुणोत्तरगुणरूपस्तस्य, तायिनः, परमश्चासौ चरणपुरुषश्चेति समासः, तस्य अपराधाः गोचरादिगोचराः, त एव शल्यानि, तेभ्यः प्रभव: सम्भवो यस्य स तथाविधः भावव्रणो भवति ज्ञातव्यः इति गाथार्थः ।
- इति आवश्यकसूत्रस्य हारिभव्यां वृत्तौ पृ. ७६५-७६६ ।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org