________________
हितोपदेशः । गाथा-१९० - आभ्यन्तरतपसः स्वरूपम् ।।
'विवेको 'व्युत्सर्गः तपः "छेदः “मूलं 'अनवस्थाप्यता "पाराञ्चितकमिति ।। महाव्रतानां मूलत आरोपणम् । तथा अवस्थाप्यत इत्यवस्थाप्यः तनिषेधादनवस्थाप्यः, तस्य भावोऽनवस्थाप्यता दुष्टतरपरिणामस्याऽकृततपोविशेषस्य व्रतानामारोपणम्, तपःकर्म चास्योत्थाननिषदनादिकर्मकरणाशक्तिपर्यन्तम् । स हि यदोत्थानाद्यपि कर्तुमशक्तस्तदाऽन्यान् प्रार्थयते - 'आर्याः ! उत्थातुमिच्छामि' इत्यादि । ते तु तेन सह संभाषणकुर्वाणास्तत्कृत्यं कुर्वन्ति, यदाह -
"उद्विज्ज निसीइज्ज व भिक्खं हिंडिज मत्तगं पेहे । कुविअपिअबंधवस्स व करेइ इयरो वि तुसिणीओ ।।१।।” एतावति तपसि कृते तस्योत्थापना क्रियते । तथा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावात्, अपराधानां वा पारमञ्चति गच्छतीत्येवंशीलं पाराञ्चितं तदेव पाराञ्चितकम् । तञ्च महत्यपराधे लिङ्ग-कुल-गण-सङ्केभ्यो बहिष्करणम् ।
एतच छेदपर्य्यन्तं प्रायश्चित्तं व्रणचिकित्सातुल्यं पूर्वसूरिभिरभिहितम् । तत्र तनुरतीक्ष्णमुखो रुधिरमप्राप्तस्त्वग्लग्नः शल्यो देहादुद्धियते, न तत्र व्रणस्य मर्दनं विधीयते शल्याल्पत्वेन व्रणस्याल्पत्वात् । द्वितीये तु लग्नोद्धृतशल्ये मर्दनं क्रियते न तु कर्णमलेन पूर्यते । तृतीये तु दूरतरगतशल्ये शल्योद्धार-मर्दन-कर्णमलपूरणानि क्रियन्ते । चतुर्थे तु शल्याकर्षण-मर्दन-रुधिरगालनानि वेदनापहारार्थं क्रियन्ते । पञ्चमे तु गाढतरावगाढशल्योद्धरणम्, ततो गमनादिचेष्टा निवार्य्यते । यावच्छल्येन मांसादि दूषितं तावत् छिद्यते, गोनसभक्षितादौ पादवल्मीके वा, पूर्वोक्तक्रियाभिरनुपशमाद् विसर्पति अङ्गच्छेदः सहास्ना शेषरक्षार्थं विधीयते च । एवं द्रव्यव्रणदृष्टान्तेन मूलोत्तरगुणरूपस्य चारित्रपुरुषस्यापराधरूपो व्रण आलोचनादिना छेदान्तेन प्रायश्चित्तविधिना शोधनीयः,
यदाहुर्भगवद्भद्रबाहुस्वामिपादाः । ""तणुओ अतिक्खतुंडो असोणिओ केवलं तया लग्गो । उद्धरिउं अवयज्झइ सल्लो न मलिज्जइ वणो उ ।।१।। लग्गुद्धियम्मि बीए मलिज्झइ परं अदूरगे सल्ले । उद्धरण-मलण-पूरण-दूरयरगए तइयगम्मि ।।२।। मा वेयणा उ तो उद्धरित्तु गालिंति सोणिअ चउत्थे । रुज्झउ लहुं ति चेट्ठा वारिज्जइ पंचमे वणिणो ।।३।। रोहेइ वणं छठे हिअमिअभोई अभुंजमाणो वा । तत्तियमेत्तं छिज्जइ सत्तमए पूइमसाइ ।।४।। तह वि अठायमाणे गोणसखा इयाए रप्फए वा वि । कीरइ तयंगछेओ सअट्ठिओ सेसरक्खट्ठा ।।५।। मूलोत्तरगुणरूवस्स ताइणो परमचरणपुरिसस्स अवराहसल्लपहवो भाववणो होइ नायव्वो ।।६।। भिक्खेरियाइ सुज्झइ अइयारो कोइ वियडणाए उ । बीओ हाऽसमिओ मि त्ति कीस सहसा अगुत्तो अ ।।७।। सद्दाइएसु रागं दोसं च मणे गओ तइअगम्मि । नाउं अणेसणिजं भत्ताइविगिचण चउत्थे ।।८।। उस्सग्गेण वि सुज्झइ अइयारो कोइ कोइ उ तवेणं । तेण वि असुज्झमाणे छेयविसेसा विसोहिति ।।९।।"
__ - आव. नि. गा. १४३४-१४४२ ।। “'तणुओ अतिक्खतुंडो' इति तनुरेव तनुकं कशमित्यर्थः, न तीक्ष्णतुण्डमतीक्ष्णमुखमिति भावना । नास्मिन् शोणितं विद्यत इत्यशोणितम्, केवलं नवरं त्वग्लग्नम्, उद्धृत्य अवउज्झति सल्लो त्ति परित्यज्यते शल्यम्, प्राकृतशैल्या तु पुल्लिङ्गनिर्देशः सल्लो, 'न मलिज्जइ वणो य' न च मृद्यते व्रण: अल्पत्वात् शल्यस्येति गाथार्थः । प्रथमशल्यजे अयं विधिः, द्वितीयादिशल्यजे पुनरयम् - लग्गुद्धियम्मि, लग्रमुद्धृतं लग्नोद्धृतम्, तस्मिन् द्वितीये, कस्मिन् ? अदूरगते शल्य इति योगः, मनाग् दृढलग्न इति भावना । अत्र ‘मलिज्जइ परं' ति मृद्यते यदि परं व्रण इति उद्धरणं शल्यस्य, मर्दनं व्रणस्य, पूरणं कर्णमलादिना तस्यैवैतानि क्रियन्ते दूरगते तृतीये शल्य इति गाथार्थः । 'मा वेयणा उ तो उद्धरेत्तु गालंति सोणिय चउत्थे । रुज्झउ लहुं ति चिट्ठा वारिज्जइ' इति मा वेदना भविष्यतीति तत उद्धृत्य शल्यं गालयन्ति शोणितं चतुर्थे शल्य इति । तथा रुह्यतां शीघ्रमिति चेष्टा परिस्पन्दादिलक्षणा वार्यते निषिध्यते । पञ्चमे शल्ये उद्धते, व्रणोऽस्यास्तीति व्रणी
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org